This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः-
३६१
 
११२८ - जग्लौ, दध्यौ, वितस्तान, क्षणं प्राण न, विव्यथे, ॥
दैवं निनिन्द, चक्रन्द, देहे चा ऽतीच मन्युना ॥६०॥
जग्लावित्यादि – शोकभारात् जग्लौ ग्लानिं गता, दृध्यौ ध्यातवती, पुनः
किं मया द्रष्टव्योsसीति । वितस्तान पीडया शब्दं कृतवती । '२००२। स्तन
शब्दे' । न प्राण न मूच्छिता । न जिजीव निःसंज्ञत्वात् । '११४४॥ अन प्राणने ।
'२२४८। अत आढ़ेः ।७॥७।' इति दीर्घत्वम् । विव्यथे लव्धसंज्ञा पीडिता ।
'२३५३। व्यथो लिटि ।७।४।६८।' इत्यभ्यासस्य सम्प्रसारणम् । दैवं निनिन्दु
निन्दितवती हे दैव ! विरूपमाचरितं त्वयेति । चक्रन्द रुदिता । पुनर्मन्युना
शोकेन देहे दुग्धा । कर्मणि लिट् ॥
 
११२९ - आश्वासयांचकारा ऽथ त्रिजटा तां, निनाय च ॥
ततः प्रजागरांचक्रुर् वानराः स विभीषणाः ॥६१ ॥
आश्वासयामित्यादि – अथानन्तरं त्रिजटा रावणभगिनी तां सीतामा-
श्वासयांचकार आश्वासितवती । विष्णुरसौ दाशरथिः कथमस्य विरूपं भविष्य
तीति । निनाय च तस्मात्पुष्पकान्नीतवती, तत उत्तरकालं वानरा विभीषणेन
सह प्रजागरांचक्रुः आलोचनां कृतवन्त: । अत्रानुप्रयोगे नात्मनेपड़ं पूर्व-
स्यानात्मनेपदत्वात् ॥
 
११३०–चिचेत रागस् तत् कृच्छ्रमषांचक्रे शुचा ऽथ सः ॥
मन्युश्चाऽस्य समापिण्ये, विरुराव च लक्ष्मणम्. ६२
 
चिचेतेत्यादि - तत् कृच्छ्रं शरबन्धदु खं रामश्चिचेत ज्ञातवान् । 'चिती
संज्ञाने' इत्युदात्तेत् । शुचा शोकेन ओषांचक्रे । कर्मणि लिट् । '२३४१ ।
उषविद - ।३।११३८ ।' इत्याम् । स च मन्युः शोकः अस्य रामस्य समापिप्ये वृद्धिं
गतः । 'ओप्यायी वृद्धौ ।' तस्य लिटि '३०७२ । प्यायः पी ।६।१।२८।
इति पीभावः । 'एरनेकाचः ।६।४।८२।' इति यण् । लक्ष्मणं च विरुराव
शब्दितवान् वत्स ! जीवसीति ॥
 
११३१ - समीहे मर्तुमा॑नर्चे तेन वाचा ऽखिलं बलम् ॥
 
आपपृच्छे च सुग्रीवं स्वं देशं विससर्ज च ॥ ६३॥
समीह इत्यादि –मर्तुं प्राणांस्त्यक्तुं समीहे इच्छति स्म । तेन रामेणाखिलं
समस्तं बलं वाचा आनर्चे पूजितम् भवद्भिः साध्वनुष्ठितं अस्मद्भाग्यमन्त्रापरा-
ध्यतीति । कर्मणि लिट् । '२२८८ । तस्माब्रुङ् द्विहलः १७१४/७१॥ इति नुट् ।
सुग्रीवं चापपृच्छे आपृच्छति स्म । आमन्त्रितवानित्यर्थः । एहि तावद्दर्शनं
मे देहि परिष्वजस्वेति । 'आङि नुप्रच्छ्योरुपसंख्यानम्' इति तङ् । स्वं च
देशं किष्किन्धां विससर्ज प्रहितवान् ॥
 
भ० का० ३१