2023-02-15 17:22:46 by ambuda-bot
This page has not been fully proofread.
३६०
महि-काव्ये – चतुर्थे तित-काण्डे लक्षण-रूपे प्रथमो वर्गः,
प्राणा इत्यादि - प्रिये रामे हते प्राणा वायवः दध्वंसिरे ध्वस्ताः गात्रं
च तस्तम्भे काष्टवज् निश्चलमभृत् । 'टभि-स्कभि प्रतिवन्धे ।' चिरादुच्छश्वास
उच्चासितवती, असौ लब्धसंज्ञा दीना दुःखिता रुरोद रुदितवती, ररास च
वक्ष्यमाणं च विलापं कृतवती ॥
११२४ - 'लौह-वन्धैर् बवन्धे नु, वज्रेण किं विनिर्ममे ॥
मनो मे, न विना रामाद् यत् पुस्फोट सहस्र - धा. ५६
लौहवन्धैरित्यादि – लोहस्येमे लौहाः तैर्बन्धैर्मनो हृदयं मम बबन्धे
बद्धम् । कर्मणि लिट् । वितर्के । उत वज्रेण विनिर्ममे निर्मितम् ।
'११६३ । माङ् माने' इत्यस्मात्कर्मणि लिट् । आतो लोपस्य '२२४३ । द्वि-
चनेऽचि ॥१॥५९।' इति स्थानिवद्भावात् द्विवचने इस्वत्वे च रूपम् ।
यद्यस्मात् विना रामात् रामेण विना । '६०३ । पृथग्विना । २।३।३२।' इति
पञ्चमी । न पुस्फोट न स्फुटितं सहस्रधा । १९८८ संख्याया विधार्थे धा
१५।३।४२ ॥ '
११२५ - उत्तेरिथ समुद्रं त्वं मदर्थे, डरीन् जिहिंसिथ, It
ममर्थ चाऽतिघोरां मां धिग् जीवित-लघुकृताम् ॥५७॥
उत्तेरिथेत्यादि — मदर्थे मन्निमित्तं समुद्रमुत्तेरिथ उत्तीर्णोऽसि '२३०१॥
तृ-फल-- । ६।४।१२२।' इत्यादिना एत्वाभ्यासलोपौ । तथा अरीन् जिहिंसिथ निह
तवानसि । थलि रूपम् । यतो मदर्थे ममर्थ मरणावस्थां गतोऽसि । अतोऽति-
घोरामतिरौद्धां मां धिक् जीवितलकृतां जीवत्याजितमहत्त्वात् ॥
११२६-न जिजीवा ऽसुखी तातः प्राणता रहितस् त्वया ॥
मृतेऽपि त्वयि जीवन्त्या किं मया Sणकभार्यया. ५८
न जिजीवेत्यादि- त्वया प्राणता जीवता । '११४४॥ अन प्राणने' ।
रहितो विमुक्तस्तातो दशरथो न जिजीव न जीवितः । त्वयि मृते ऽपि
जीवन्त्या मया न किंचित्प्रयोजनम् । अणकभार्यया । '७३४ । पापाणके-
।२।१॥५४॥' इति सः ॥
११२७ - सा जुगुप्सान् प्रचक्रे ऽसून्, जगर्हे लक्षणानि च ॥
देहभाजि, ततः केशान् लुलुञ्च, लुलुठे मुहुः ॥ ५९॥
सा जुगुप्सानित्यादि-
-सा सीता पूर्वोक्तकारणादेव असून् प्राणान् जुगु-
प्सान् प्रचक्रे निन्दितान् कृतवती । जुगुप्स्यन्त इति घन् । तदन्तस्य सनि
रूपम् । आमि प्रत्यये तु प्रचक्र इत्यनुप्रयोगो न घटते । देहभाजि शरीरस्थानि
लक्षणानि अवैधव्यंसूचकानि च जगहें गर्हते स्म । 'गई - गल्भ कुत्सने ।' मुहुः
केशान् लुलुख अपनीतवती, तथा लुलुटे पतिता ॥
।