This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः- ३५९
 
सक्थ्यक्ष्णोः - ।५।४।११३।' इति समासान्तष्टच् । रिपुमिन्द्रजितं खे स्थितं विदां-
चकार ज्ञातवान् । '२३४१॥ उष- विद - ।३।११३८।' इत्यादिना आम् । ननई च
गव्दितवान् । केदानीं यास्यसीति ॥
 
१९१९ - उज्जुगूरे ततः शैलं हन्तुमि॑िन्द्रजितं कपिः ॥
 
विहाय रावणिस् तस्माददा॑नंहे चा ऽन्तिकं पितुः ५१
उजुगूर इत्यादि-ततो ऽनन्तरं कपिः सुग्रीवः इन्द्रजितं हन्तुं शैलसु
जुगूरे उत्क्षितवान् । '१२२९। गूरी हिंसा-गयोः' इति देवादिकोऽनुदात्तेत् ।
तस्य गतौ वर्तमानस्य रूपम् । रावणिरिन्द्रजित विहाय अर्थायुद्धं विहाय तस्मा-
दाकाशात्पितुरन्तिकमानंहे गतः । ११९३३ । अहि गतौ ।' '२२८८ । तस्मान्नुह
द्विहलः ।७।४।७१॥ इनि नुट् ॥
 
१९२० - आचचक्षे च वृत्तान्तं, मजहर्ष च रावणः ॥
 
-
 
गाढं चौपजुगूह्रैनं, शिरस्यु॑पशिशिङ्ख च ॥ ५२ ॥
आचचक्ष इत्यादि —— नागपाशेन राघवौ वद्धाविति वृत्तान्तमाचचक्षे
आख्यातवान्, रावणः प्रजहर्ष तुष्टवान्, एनं च रावणिं च उपजुगूह दृढमा-
लिष्टवान् । अन्न क्रियाफलस्याविवक्षितत्वात् तङ् न भवति । '२३६४। ऊद्रुप-
धाया गोहः ॥६।४॥८९।' इत्यूत्वम् । शिरसि उपशिशिद्ध आत्रातवान् । 'शिवि
आघ्राणे ॥'
 
११२१–ध्वजानु॑द्दुधुवुस् तुङ्गान्, मांसं चेमुर्, जगुः, पपुः ॥
कामयांचक्रिरे कान्तास्, ततस् तुष्टा निशाचराः ॥
 
-
 
ध्वजानित्यादि - ततो निशाचरा अपि श्रुत्वा तुष्टाः सन्तः ध्वजांस्तुङ्गानुहु-
ध्रुवुः उत्क्षिप्तवन्तः, मांसं चेमुः खादितवन्तः, 'चमु छमु अदने ।' जगुगतवन्तः,
पपुः मद्यं पीतवन्तः, कान्ताः कामयांचक्रिरे । कमेर्णिङन्तादाम् ॥
 
3
 
११२२ - दर्शयांचक्रिरे रामं सीतां राज्ञश् च शासनात् ॥
तस्या मिमीलतुर् नेत्रे, लुलुठे पुष्पकोदरे. ॥ ५४ ॥
दर्शयामित्यादि — तथाभूतं रामं दृष्ट्वा सीता मम विधेया स्यादित्यभिप्रा-
यवतो राज्ञो रावणस्य आज्ञया राक्षसाः अशोकवनिकातः पुष्पकमारुह्य सीतां
रामं दर्शयांचक्रिरे दर्शितवन्तः । 'अभिवादि-दृशोरात्मनेपद उपसंख्यानम्' इति
विकल्पेन द्विकर्मकता । तस्याः सीताया नेत्रे निमीलतुः निमीलिते । 'मील निमे
षणे ।' पुष्पकोदरे पुष्पकमध्ये । मूर्च्छया लुलुठे लुठिता ॥
 
११२३ - प्राणा दध्वंसिरे, गात्रं तस्तम्भे च प्रिये हते, {}
 
उच्छश्वास चिराद् दीना, रुरोदा ऽसौ ररास च. ५५