This page has not been fully proofread.

३५८ भट्टि- काव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
बवाध इत्यादि- बयाधे च अभिभूतवान् । 'बाट विलोडने' निजग्राह च
निगृहीतवान्, सायकैः लोहयुक्कैः सर्पाखैः उत्ससर्ज शरान् क्षितवान्, ते उत्सृष्टाः
शरा अस्य बलस्य सर्पसात् । कार्ये सातिः । संग्रपेदिरे संप्रपद्यन्ते स्म
१११४ - आचिचाय स तैः सेनामा॑चिकाय व राधवौ ॥
 
-
 
वभाण च, 'न मे मायां जिगायेन्द्रोऽपि, किं नृभिः',
आचिचायेत्यादि – स इन्द्रजित सर्पास्त्रैर्वानराणां सेनामाचिचाय छन्न-
वान् । '२५२५ । विभाषा चेः ।७।३।५८।' इति अकुत्वपक्षे रूपम् । राघव च
रामलक्ष्मणावाचिकाय । कुत्वपक्षे रूपम् । वभाण च भणति स्म । मम मायामि-
न्द्रोऽपि न जिगाय न जितवान् । '२३३१॥ सँलिटोर्जेः ।७।३।५८।' इति कृत्वम् ।
किं नृभिः । न किंचित्प्रयोजनमित्यर्थः ॥
 
१११५ - आचिक्याते च भूयो ऽपि राघवौ तेन पन्नगैः ॥
तौ मुमुहतुरु॑द्विनौ, वसुधायां च पेततुः ॥ ४७ ॥
आचिक्यात इत्यादि - तेनेन्द्रजिता भूयोऽपि राघवावाचिक्याते छन्नौ ।
कर्मणि लिट् । तो पाशबौ मुमुहतुः मोहं गतौ । उद्विग्नौ समीहितानिष्पत्तेः ।
वसुधायां च पेततुः पतितौ । बन्धपरवशीकृतत्वात् ॥
१११६ – ततो रामे॑ति चक्रन्दुस्, त्रेसुः परिदिदेविरे ॥
 
निशश्वसुश् च सेनान्यः, प्रोचुर् धिर्गिति चाऽऽत्मनः.
तत इत्यादि - ततः पतनादनन्तरं सेनान्यः सुग्रीवादयः । '२७२ । एरने-
काचः-।६॥४॥८२ ।' इति यण् । रामेति नामग्राहं चक्रन्दुः रुदितवन्तः, त्रेसुः
भीताः परिदिदेविरे परिदेवनं कृतवन्तः । 'देव देवने' अनुदात्तेत् । निश-
श्वसुः कोष्णं निश्वासानुत्ससृजुः आत्मनश्च धिगिति प्रोचुः गर्हितवन्तः ।
धिग्योगाद्वितीया ॥
 
,
 
१११७ - मन्युं शेकुर् न ते रोखुं, ना ऽस्रं संरुरुधुः पतत् ॥
 
विविदुर् नेन्द्रजिन्- मार्ग, परीयुश् च लवङ्गमाः ४९
मन्युमित्यादि — मन्युं शोकं रोद्धुं वारितुं न शेकुः पारितवन्तः । अस्रं च
लोचनेभ्यः न संरुरुधुः पतत् न संरुद्धवन्तः, इन्द्रजितो मार्ग न विविदुः
व ज्ञातवन्तः, कासों तिष्ठति इति । प्लवङ्गमाश्च परीयुः समन्ताद्गतवन्तः ।
वासावगमदिति ॥
 
१११८ - दधावा ऽद्भिस् ततश् चक्षुः सुग्रीवस्य विभीषणः ॥
विदांचकार धौता॒ऽक्षः स रिपुं खे, ननर्द च ॥५०॥
दधावेत्यादि- ततोऽनन्तरं विभीषणः सुप्रीवस्य मत्रपूताभिरद्भिश्चक्षुर्द-
घाव प्रक्षालितवान्, सुग्रीवः धौताक्षः प्रक्षालितचक्षुः । '८५२ । बहुव्रीहौ