This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः-
यो व्रणादित्यर्थात् कर्तरि लिटः पित्वादकिश्वे गुणः । भुजश्छिन्नाः सन्तः
क्षणमात्रं चेलुश्चलिताः ॥
 
१९०९ - कृत्तैरपि दृढ - क्रोधो वीर-वर् न तत्यजे, ॥
 
पलायांचक्रिरे शेषा, जिहियुः शूर मानिनः ॥४१॥
कृत्तरित्यादि–वीरवः शूरमुखैः कृत्रपिst घनः क्रोधोन
तत्यजे न त्यक्तः । दुष्टौष्टभ्रुकुट्यादीनां तथावस्थानात् । कर्मणि लिट् । पला-
यांचक्रिरे पलायिताः । २३२४। दयायासश्च ।३।१।३७ ।' इत्याम् । '२३२६
उपसर्गस्यायतौ ।८।२।१९॥ इति लत्वम् । शेषा ये न पलायिताः ते शूरमा-
निनः । '२९९२ । मनः ।३।२।८२ ॥ इति णिनिः । जिहियुः लज्जन्ते स्म ॥
१११० - राघवो न दयांचत्रे, दधुर धैर्य न केचन, ॥
 
1
 
-
 
मत्रे पतङ्गवद् वीरेंद्र हाहंति च विचुक्रुशे ॥ ४२ ॥
राघव इत्यादि — राघवो न दयांचक्रे न दयां कृतवान् । पूर्ववदाम् । न
केचन न केचित् धैर्य दधुः धारितवन्तः । सर्व एव अहमहमिकया प्रवृत्ताः ।
यदि वा न केचन केचिद्धैर्यं न दधुः अपि तु दुधुरेव । पतङ्गवत्पतङ्गैरिव वीरैमैत्रे
मृतम् । भावे लिट् । हाहेति च विचुक्रुशे रुदितम् ॥
 
११११ - तिरोवभूवे सूर्येण, प्रापे च निशया ऽऽस्पदम्, 11
जग्रसे काल रात्रीव वानरान् राक्षसांश च सा. ४३
तिर इत्यादि — सूर्येण तिरोबभूवे तिरोभूतम् । अस्तं गतमित्यर्थः । भावे
लिट् । निशया निशा च आस्पदं प्रतिष्ठाम् । १०६१॥ आस्पदं प्रतिष्टायाम्
।६।१।१४६।' इति निपातनम् । प्रापे प्राप्तम् । कर्मणि लिट् । सा च निशा
कालरात्रीव कालः कृतान्तस्तेन प्रयुक्ता रात्रिरिति शाकपार्थिवत्वात्सः ।
'३४४५। रात्रेश्चाजसौ ।४।१।३१।' इति ङीप् । वानरान् राक्षसांश्च जग्रसे ग्रसते
स्म । भक्षितवतीत्यर्थः ॥
 

 
१११२ - चुकोपेन्द्रजित्युग्रं सर्पाऽस्त्रं चा ऽऽजुहाव, सः ॥
 
3
 
आजुहुवे तिरोभूतः परानीकं, जहास च ॥ ४४ ॥
चुकोपेत्यादि रामव्यापारं दृष्ट्वा इन्द्रजित् तिरोहितः सन् चुकोप कुपित-
वान्, अत्युग्रं च सर्पास्त्रं सर्पा अस्त्रमिव आजुहाव आहूतवान्, आह्वयतेः शब्दे
वर्तमानस्य '२४१७ । अभ्यस्तस्य च ।६॥१।३३।' इति द्विवेचनात् प्राक् सम्प्रसारणं
ततो द्विर्वचनम् । परानीकं च रामबलं आजुहुवे स्पर्धते स्म । '२७०४ । स्पर्धाया-
माङः ।१।३।३१।' इत्यात्मनेपदम् । पूर्ववत्सम्प्रसारणम् । यजादित्वाद्वा । तत
उवङादेशः । जहास च विहसितवान् ॥
 
१११३ - वबाधे च वलं कृत्स्नं, निजग्राह च सायकैः ॥
 
उत्ससर्ज शरांस्, तेऽस्य सर्प - साच् च प्रपेदिरे. ४५