This page has not been fully proofread.

३५६ मट्टि-काव्ये - चतुर्थी तिन्त-काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
मि. (ती) प्रतिषेधः : प्राणैर्ज व्यक्तः । कर्मणि लिट् । द्विविदो वानरः अशनिप्रभं
राक्षसं प्राणान् अमोचयांचकार त्याजितवान् । मुचेर्ण्यन्तस्य लिटि रूपम् ॥
११०४ - गदा शऋ- जिता जिध्ये, तां प्रतीयेष वालि-जः ॥
रथं समन्थ सहयं शाखिना ऽस्य ततो ऽङ्गदः ३६
 
गदैत्यादि – शक्रजिता इन्द्रजिता गदा जिध्ये प्रहिता । हिनोतेः कर्मणि
लिट् । '२५३१॥ हेरचङि ।७।३।५६।' इति कृत्वम् । तां गदां वालिजोऽङ्गदः ।
प्रतीयेप प्रतीष्टवान् । इपे: '२२९० । अभ्यासस्यासवर्णे ।६।४।७८।' इतीय ।
ततोऽनन्तरं अस्य शऋजितो रथं सहयं सावं शाखिना तरुणा ममन्थ चूर्णित-
वान् । 'मथि हिंसासंकुशनयोः ॥'
 
११०५ - तत् कर्म वालि पुत्रस्य दृष्ट्वा विश्वं विसिष्मिये, ॥
संत्रेसू राक्षसाः सर्वे, बहु मेने च राघवः ॥ ३७॥
तत्कमैत्यादि- तत्कर्म रथस्य चर्णनं दृष्ट्वा विश्वं त्रैलोक्यं विसिमिये विस्मि
तम् । राक्षसाः सर्वे संत्रेसुः । राघवश्च बहु मेने । अङ्गदं लावितवानित्यर्थः ॥
११०६ - सुग्रीवो मुमुदे, देवाः साध्वित्यूचुः स - विस्मयाः ॥
विभीषणो ऽभितुष्टाव, प्रशशंसुः प्लवङ्गमाः ॥ ३८ ॥
सुग्रीव इत्यादि- सुग्रीवो सुसुदे हृष्टवान्, देवाः साध्वित्यूचुः, '२४०९
वचि-स्वपि-।६।१।१५।' इति सम्प्रसारणम् । विभीषणोऽभितुष्टाव अमिष्टुतवान् ।
'टुञ् स्तुतौ ।' '२२७० । उपसर्गात्- ।८।३।६५।' इत्यादिना पत्वम् । लवङ्गमाः
प्रशशंसुः प्रशंसां कृतवन्तः ॥
 
१९०७ - ही चित्रं लक्ष्मणेनौदे, रावणिश च तिरोदधे ॥
 
विचकार ततो रामः शरान्, संतत्रसुर् द्विपः ॥ ३९ ॥
 
"
 
ही चित्रमित्यादि — हीति विस्मये । चित्रमाश्चर्यमिति लक्ष्मणेनोदे उक्तम् ।
वदेर्भाचे लिट् । यजादित्वात्सम्प्रसारणम् । रावणिः इन्द्रजित रावणस्यापत्यम् ।
'१८९५॥ अत इञ् ॥४।१।९५ । तिरोदधे अदृश्योऽभूत् । ततः अदर्शनानन्तरं
रामः शरान् विचकार विक्षिप्तवान् । 'कृ विक्षेपे' । द्विषः संतत्रसुः संत्रस्ताः ॥
११०८ - विभिन्ना जुघुरुर् घोरं, जक्षुः कव्याऽशिनो हतान् ॥
चुश्योत व्रणिनां रक्तं, छिन्नाश चेलुः क्षणं भुजाः ४०
विभिन्ना इत्यादि — शरैर्विभिन्ना जुघुरुः घोरं भीमशब्दं कृतवन्तः । 'घुर
'भीमार्थ- शब्दयोः ।' ऋव्याशिनः शृगालादयो हतान् विनष्टान् जक्षुः भक्षित-
चन्तः । '२४२४। 'लियन्यतरस्याम् ।२।४।४।' इत्यदेर्घस्ल । उपधालोपः ।
१२१ । खरिच ।८।४॥५५॥ इति चम् । व्रणिनां शरैः कृतव्रणानां रक्कं