This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः
 
तस्तनुरित्यादि – उभये भटा रामरावणसंवन्धिनो योधाः क्षताः सन्तस्तं-
स्तनुः स्तनितवन्तः । जह्वलुः चलिताः । 'ह्वल-हाल चलने' । मम्लुः म्लानाः ।
'क्लै गात्र-क्षये ।' जग्लु: हर्पक्षयं गताः । लुलुटिरे भूमौ लुठन्ते स्म । 'रूठ
लुठ प्रतिवाते' तुदादावात्मनेपदी पठ्येते । मुमूर्छु: मोहमुपगताः । रक्तं ववमुः
गीर्णवन्तः । ततृपुः तृष्यन्ति स्म । एतत् संकुलयुद्धमाह ॥
 
१०९९ - सम्पातिना ग्रजङ्घस् तु युयुधे, ऽसौ द्रुनाहतः ॥
 
चकम्पे, ऽतीव चुक्रोश, जीवनाशं ननाश च. ३१
 
सम्पातिनेत्यादि – प्रजो नाम राक्षसः सम्पातिनाम्ना वानरेण सह युयुधे
युध्यते स्म । असौ प्रजङ्गो द्रुमाहतश्चकम्पे कम्पते स्म । अतीव अत्यर्थं चुक्रोश
क्रोशति स्म । जीवनाशं ननाश जीवेन विनष्टः । ३३६४। कर्त्रार्जीव पुरुषयोर्न-
शिवहोः ।३।४।४३।' इनि गनुल
 
११०० - उच्चखाते नलेना ssजौ स्फुरत्-यतपनऽक्षिणी ॥
जम्बुमाली जहाँ प्राणान् ग्राव्णा मारुतिना हतः ३२
 
x
 
उच्चणात इत्यादि — स्फुरन् चलन् प्रतपनो नाम राक्षसः तस्याक्षिणी
स्फुरतीव प्रतपनस्याक्षिणी नयने नलेन वानरेण उच्चखाते उत्खाते । कर्मणि
लिट् । '२३६३ । गम हन । ६।४।९८।' इत्युपधालोपः । मारुतिना हनुमता
ग्राण्णा पाषाणेन हतो जम्बुमाली राक्षसः प्राणान् जहौ त्यक्तवान् ॥
११०१ - मित्रघ्नस्य प्रचुक्षोद गदया ऽङ्गं विभीषणः ॥
 
सुग्रीवः प्रघसं नेभे, वहून् रामस् ततर्द च ॥३३॥
मित्रघ्नस्येत्यादि — मित्रघ्नस्य राक्षसस्य अङ्गं गदया विभीषणः प्रचुशोद ।
प्रघसं नाम राक्षसं सुग्रीवो नेभे हिंसितवान् । 'णभ तुभ हिंसायाम्' इत्यनुदा-
तेत् । रामश्च बहून् राक्षसान् ततर्द हिंसितवान् । 'उ-तृदिर् हिंसाऽनादरयोः' ॥
११०२ - वज्रमुष्टेर् विशिश्लेष मैन्देना ऽभिहतं शिरः, ॥
 
K
 
नीलश् चकर्त चक्रेण निकुम्भस्य शिरः स्फुरत् ३४
वज्रमुष्टेरित्यादि – वज्रमुष्टे राक्षसस्य शिरो मैन्देन वानरेण अभिहतं सत्
विशिश्लेष विश्लिष्टम् । निकुम्भस्य शिरः स्फुरत् चलत् । नीलो वानरश्चक्रेण
चकर्त छिन्नवान् ॥
 
,
 
११०३ - विरूपाक्षो जहे प्राणैस् तृढः सौमित्रि-पत्रिभिः ॥
प्रमोचयांचकाराऽसून् द्विविदस् त्वंशनि-प्रभम् ३५
 
विरूपाक्ष इत्यादि — विरूपाक्षो राक्षसः सौमित्रिपत्रिभिर्लक्ष्मणशरैः तृढः
हत इत्यर्थः । 'तृह' [ हू ] हिंसार्थ: [ यां ] इति तौदादिकस्योदित्त्वान्निष्ठाया-