This page has not been fully proofread.

३५४ भट्टि-काव्ये चतुर्थी तिङन्त-काण्डे लक्षण रूपे प्रथमो वर्गः,
१०९३ - वानरा मुष्टिभिर् जघ्नुर् दर्दशुर् दशनैस् तथा ॥
निराश च गिरींस तुझान्, दुमान् विचकरुस् तथा २५
 
-
 
वानरा इत्यादि - वानरा मुष्टिभिर्जघ्नुः हृतवन्तः । राक्षसानित्यर्थात् ।
इरानैदंशुः ः दृष्टवन्तः । गिरीन्निरासुः क्षिप्तवन्तः । द्रुमान् विचक विक्षिप्तवन्तः ।
'१५०३१ कॄ विक्षेपे ।' '२३८३ । ऋच्छत्यृताम् ।७।४।११।' इति गुणः ॥
१०९४-लाङ्गूलैर् लोठयांचक्रुस्, तलैर्, निन्युश् च संक्षयम् ॥
नखैश् चकृततुः, क्रुद्धाः पिपिपुश् च क्षितौ बलात्. २६
लाङ्गूलैरित्यादि – लाङ्गूलैटयांचक्रुः लाङ्गूलैर्व्यापादितवन्तः । 'रुठ लुठ
प्रतिघाते' परस्मैपदिनो ण्यन्तस्य रूपम् । तलैर्हस्ततलैः संक्षयं विनाशं निन्युः
नीतवन्तः । नखैश्चकृततुरुच्छिन्नवन्तः । 'कृती च्छेदने' क्रुद्धाः वानराः बलात्
हठात् क्षितौ पिपिपुचूर्णितवन्तः ॥
 
१०९५ संबभूवुः कवन्धानि, प्रोहुः शोणित-तोय-गाः, ॥
तेरुर् भटाऽऽस्य-पद्मानि, ध्वजैः फेणैरि॑िवाऽऽवभे, २७
संवभूवुरित्यादि- कवन्धानि संबभूवुः संभूतानि । प्रतिसहस्रं व्यापाद्-
नात् । कबन्धस्यैकस्योत्पादनात् । शोणिततोयगा: शोणितनद्यः प्रोडुः प्रकर्षेण
प्रवृत्ताः । वहेर्यजादित्वात् सम्प्रसारणम् । भटास्यपद्यानि योधमुखपद्मानि तेरुः
प्लुतानि । '२३०१॥ तृ-फल- १६।४।१२२।' इत्यादिना एत्वाभ्यासलोपौ । फेणैरिव
ध्वजैः शोणितनदीपु आवभे शोभितम् । भावे लिट्र ।
 
१०९६ - रक्त पङ्के गजा: सेदुर्, न प्रचक्रमिरे रथाः ॥
 
निममज्जुस् तुरङ्गाश् च, गन्तुं नौत्सेहिरे भटाः २८
रक्तपङ्क इत्यादि – रक्तपके गंजा: सेदुः निषण्णाः । रक्तपङ्कस्य बहुल-
त्वात् । तथा रथा न प्रचक्रामरे न गन्तुमारब्धाः ८२७१५ । प्रोपाभ्याम् ।
१॥३॥४२॥' इत्यात्मनेपदम् । तुरङ्गा निममज्जुः निमग्नाः । भटाश्च गन्तुं नोत्से-
हिरे नोसन्ते स्म ॥
 
."
 
१०९७ - कोट्या- कोट्या पुर द्वारकै रुरुधे द्विषाम् ॥
षट्-त्रिंशद्धरि - कोट्यश् च निवव्रुर् वानराऽऽधिपम्, २९
कोट्यत्यादि — द्विषामेकैकं पुरद्वारं वानराणां कोट्या कोट्या रुरुधे रुद्धम् ।
कर्मणि लिट् । षट्त्रिंशद्धरिकोट्यः वानरकोट्यो वानराधिपं सुग्रीवं निवव्रुः
 
आवृत्य स्थिताः ॥
 
१०९८ - तस्तनुर्, जह्वलुर, मम्लुर, जग्लुर, लुलुठिरे क्षताः ॥
मुमूर्च्छर्, ववमू रक्तं, ततृषुश् चौभये भटाः ॥ ३० ॥