This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके 'शरबन्धो नाम चतुर्दशः सर्गः- ३५३
 
प्रमाणे-1
- ।३।४।३२।' इत्यादिना णमुल ऊलोपश्च । मृगाः प्रससृपुर्वानं वामपा-
वे॑न गता इत्यर्थः । नगाः पक्षिणोऽशुभान् अनिष्टांञ्जुकुविरे शब्दितवन्तः ।
'कुङ् शब्दे ।' अशुभमिनि पाठान्तरम् । तत्र क्रियाविशेषणं वेदितव्यम् ॥
 
,
 
१०८९ - उल्का दहशिरे दीवा, रुरुबुझ चाऽशिवं शिवाः ॥
चक्ष्माये च मही, रामः शशङ्के चाऽशुभाऽगमम्. २१
 
-
 
उल्का इत्यादि — दीप्ता उल्का दहशिरे दृष्टाः । अशिवा अनिष्टाः शिवा
गोमायवः रुरूवुः शव्दितचन्त: । मही च चक्ष्माये कम्पिता । 'क्ष्मायी विधूनने'
इत्यनुदात्तेत् । रामश्वाशुभागममनिष्टप्राप्तिमाशश शङ्कते स्म । चेतसः पर्याकु-
लत्वात् इदमप्यनिष्टमेव ॥
 
१०९० - रावणः शुश्रूवान् शत्रून् राक्षसान॑भ्युपेयुषः ॥
 
स्वयं युयुत्सयांचत्रे प्राकाराऽग्रे निषेदिवान् ॥ २२॥
रावण इत्यादि — राक्षसानभ्युपेयुषो ऽभिमुखमुपगतवन्तो ये शत्रवो रा-
मादयस्तान् रावणः शुश्रुवान् । स्वयं च प्राकाराग्रे निषेदिवान् निषण्णः सन् ।
'३०९७। भाषायां सद- वस - १३१२।१०८।' इत्यादिना क्वसुः । युयुत्सयांचक्रे योद्धु-
मिच्छन्तं प्रयोजितवानित्यर्थः । सन्नन्तण्यन्तस्य रूपम् ॥
 
१०९१ - निरासू राक्षसा वाणान्, प्रजहुः शूल-पट्टिशान् ॥
असींश् च वाहयांचक्रुः पाशैश् चाऽऽचकृषुस् ततैः॥
 
-
 
निरासुरित्यादि
— रावणप्रचोदिता राक्षसा वाणान्निरासुः क्षिप्तवन्तः ।
शूलपट्टिशान् शूलसहितान् पट्टिशान् । शाक पार्थिवादित्वात्तत्पुरुषः । द्वन्द्वे तु
'९१०। जातिरप्राणिनाम् ।२।४।६।' इत्येकवद्भावः स्यात् । तान् प्रजहुः त्यक्तवन्तः ।
'ओहाइ त्यागे ।' असींश्च खड्डान् वाहयांचक्रुः व्यापारितवन्तः । ण्यन्तस्य रूपम् ।
पाशैस्ततैर्विस्तृतैः आचकृषुः आकृष्टवन्तः । कित्वे गुणप्रतिषेधः ॥
१०९२ - भल्लैश च विभिदुस् तीक्ष्णैर्
विविधुस् तोमरैस् तथा ॥
गदाभिश् चूर्णयांचक्रुः,
 
शितैश चक्रैश् च चिच्छिदुः ॥ २४ ॥
 
भरित्यादि-भलैर्विभिदुर्विदारितवन्तः । तीक्ष्णैस्तथा तोमरर्विविधुस्ता-
डितवन्तः । व्यधेः '२४१२॥ ग्रह ज्या । ६।१।१६।' इत्यादिना सम्प्रसारणम् ।
गदाभिश्च चूर्णयांचक्रुः चूर्णितवन्तः । '२५६३ । सत्य । ३।१॥२५॥ इत्यादिना
णिच् । '१६५७। चूर्ण प्रेरणे' इति चौरादिकत्वाद्वा । चिच्छिदु: च्छिन्नवन्तः ।
राक्षसयुद्धमेतत् ॥