This page has not been fully proofread.

३५२
 
भट्टि- काव्ये -- चतुर्थी तिङन्त-काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
६।४।१३८।' इत्यकारलोपो निवर्तते ४१७ । चौ ।६।३।१३८ । इति दीर्घत्वं च ।
स्वयमिति । रावण उत्तरद्वारमियाय गतः । विरूपाक्षो राक्षसः पुरोदरं पुरमध्यं
समध्यासिसिपांचक्रे समध्यासितुमिष्टवान् । आस्तेरनुदात्तेतः सनि इटि अजादिः ।
'२७३४ । पूर्ववत्सनः ॥३।६२॥ इत्यात्मनेपदम् । अनुप्रयोगस्याप्यात्मनेपदम् ॥
१०८५ - शुश्राव रामस् तत् सर्वं, प्रतस्थे च स-सैनिकः ॥
 

 
विस्फारयांचकाराऽस्त्रं बवन्धाऽथ च वाणधी. १७
शुश्रावेत्यादि – अथानन्तरं रामस्तत्सर्वं रावणचेष्टितं शुश्राव श्रुतवान् ।
प्रतस्थे च गन्तुं प्रवृत्तः । १२६८९ । समवप्रविभ्यः स्थः ॥१॥३॥२२।' इति तङ् ।
ससैनिकः सह योधैः । सेनायां समवेता इति '१५९५॥ सेनाया वा ॥४॥४॥
'४'५।' इति पक्षे ठक् । अस्त्रं धनुर्विस्फारयांचकार आरोप्याकृष्टवान् । स्फुरतेः ।
'२५६९ । चिस्फुरोण । ६।१।५॥' इत्यात्वम् । बबन्ध च बाणधी तूणीरे
बध्नाति स्म । वाणा धीयन्ते ऽस्मिन्निति । '३२७१ । कर्मण्यधिकरणे च । ३ । ३ ।
९३ ।' इति किः ॥
 
१०८६ - ईक्षांचक्रे ऽथ सौमित्रिम॑नु॒जज्ञे वलानि च, 11
 
नमञ्चकार देवेभ्यः पर्ण- तल्पं मुमोच च ॥ १८ ॥
ईक्षामित्यादि – सौमित्रिं च युद्धाय ईक्षांचक्रे दृष्टवान् । ईक्षेरनुदात्तेतः ।
'२२३७ । इजादेः - ।३।१।३६।' इत्याम् । बलानि च अनुजज्ञे अनुज्ञातवान् ।
अनुपूर्वो जानातिरनुज्ञाने वर्तते तस्य परस्मैपदित्वात् । '२७४३ । अनुपसर्गात्-
।१।३।७६ । इति वचनादात्मनेपदम् । उपसर्गेण युक्तत्वात् । नमश्चकार देवेभ्यः ।
नमः शब्दयोगे चतुर्थी । पर्णतल्पं पर्णशयनीय मुमोच मुक्तवान् ।
 

 
१०८७ - चकासांचक्रुरुत्तस्थुर्, नेदुरा॑नशिरे दिशः ॥
 
वानरा, भूधरान् रेधुर्, वभञ्जुश, च ततस् तरून्.
चकासांचक्रुरित्यादि- ततोऽनुज्ञानान्तरं वानरा उत्तस्थुः उत्थिताः ।
नेदुः शब्दितवन्तः । दिश आनशिरे व्याप्ताः । '२५३३ । अश्नोतेश्च १७४७२
इत्यभ्यासस्य नुट् । '२२४८ । अत आदेः ।७।४।७० ।' इति दीर्घत्वम् । भूधरान्
पर्वतान् रेधुः उन्मूलितवन्तः । '२५३२ । राधो हिंसायाम् ॥६।४।१२३।' इत्ये-
त्वाभ्यासलोपः । तरूंश्च बभञ्जुः भग्नवन्तः । एवं च ते चकासांचक्रुः शोभन्ते
स्म । कास्यनेकाज्ग्रहणमित्याम् ॥
 

 
१०८८ - ददाल भूर्, नभो रक्तं गोष्पदनं ववर्ष च ॥
 
3
 
मृगाः प्रससृपुर् वामं, खगाश चुकुविरेऽशुभम्. २०
ददालेत्यादि – लोकद्वयं राघवयोर्ब्रह्मास्त्रबन्धसूचनार्थमनिमित्तदर्शनम् ।
भूर्ददाल विदीर्णा । नभश्च रक्तं रुधिरं ववर्ष वृष्टवत् । लिटः पित्त्वादकित्त्वे
धातोर्गुणः । कियव्प्रमाणं गोष्पदनं यावता गोष्पदं पूरयित्वा । '३३५२ वर्ष-