This page has not been fully proofread.

३५० भट्टि- काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथमो वर्गः,
अङ्गुलित्राणि बबन्धुः बनन्ति स्म । '१०४२ बध वन्धने ।' तथा परे सन्नेः
कवचानि बध्नन्ति स्म । '१२४१॥ यह बन्धने' । परिनिर्ययुः निष्क्रान्ताः ॥
१०७६ – धनूंष्यारोपयांचरारुरुहू रथाऽऽदिषु ॥
 
असीनु॑द्ववृहुर् दीप्तान्, गुर्वीरुञ्चिक्षिपुर् गदाः ॥ ८॥
धनूंषीत्यादि – धनूंपि आरोपयांचक्रुः आरोपितगुणानि कृतवन्तः । '२५९९॥
रुहः पोऽन्यतरस्याम् ।७।३ । ४ ३ । ' इति णौ पादेशः । आरुरुहुरारोहन्ति स्म रथा-
दिपु । द्वितीया न कृता । अधिकरणत्वेन विवक्षितत्वात् । दीप्तान्निष्कलङ्कान-
सीन् ववृहुः कोशादाकृष्य उद्यतान् कृतवन्तः । 'वृह उद्यमने ।' गुर्वीर्गदा उच्चि-
क्षिपुः उत्क्षिप्तवन्तः ॥
 
१०७७ - शूलानि भ्रमयांचक्रुर, वार्णानाददिरे शुभान् ॥
भ्रेमुश, चुकुर्दिरे, रेसुर् ववल्गुश् च पदातयः ॥ ९॥
शूलानीत्यादि – शूलानि भ्रमयांचक्रुः भ्रमयन्ति स्म । सान्तवान्मित्वे
ह्रस्वत्वम् । बाणान् शुभान् युद्धयोग्यानाददिरे गृहीतवन्तः । '२६८६ । आड़ो
दोऽनास्यविहरणे ।१।३।२०॥ इति तङ् । पढ़ातयश्च मुः इतस्ततो याताः ।
चुकुढ़िरे शस्त्रपाणयः क्रीडितवन्तः । 'कुर्द-खुर्द-गुर्द-गुद क्रीडायामेव ।' रेसुः
भयकृते निनादान् कृतवन्तः । 'रस शब्दे ।' ववल्गुः प्रप्लुताः । वल्गतिः 'उख
उखि -' इत्यत्र पठ्यते ॥
 
१०७८ - समुत्पेतुः कशा - घातै, रश्म्याकर्णैर् ममङ्किरे ॥
 
॥१०॥
 
अश्वाः, प्रदुद्रुवुर् मोक्षे रक्तं निजगरुः श्रमे ॥ १० ॥
समुत्पेतुरित्यादि – कशाधातैः चर्मलताप्रहारैः अश्वाः समुत्पेतुः उल्लुताः ।
रइम्याकपैः प्रग्रहाकर्षणैः । ममङ्गिरे शोभन्ते स्म । संकोचितघोणत्वात् । 'माग
मण्डने ।' मोक्षे रश्मीनां प्रसारणे प्रदुद्रुवुः वेगेन गताः । श्रमे सति खलीनप्र-
भवं रक्तं निजगरुः पीतवन्तः । '१५०४ । गृ निगरणे ।' '२३८३॥ ऋच्छत्यृताम्
१७।४।११।' इति गुणः ॥
 
१०७९ - गजानां प्रददुः शारीन्, कम्बलान् परितस्तरुः, 11
तेनुः कक्षां, ध्वजांश् चैव समुच्छिश्रियुरुच्छिखान्. ११
गजानामित्यादि — गजानां शारीन् प्रददुः पृष्ठेषु आरोपितवन्तः । हस्ति-
पका इत्यर्थात् । तथा कम्बलान् नानावर्णविचित्रान् परितस्तरुः आस्तीर्णवन्तः ।
कक्षां हेमादिमयीं तेनुः विस्तारितवन्तः । उच्छिखान् उद्धृतशिखान् ध्वजान्
समुच्छिवियुः उत्क्षिप्तवन्तः ॥
 
3
 
१०८० - विशिश्वासयिषांचक्रुरालिलिङ्गुश च योषितः ॥
आजघुर् मूर्ध्नि बालांश्च चुचुम्बुश च सुत- प्रियाः ॥