This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'शर-वन्धो' नाम चतुर्दशः सर्गः- ३४९
आम्प्रत्ययवत् -।१।३।६३ ।' इति कृञोऽनुप्रयोगस्यात्मनेपढ़े । १२५६४१ णिचश्च
११।३।७४।' इति आम्प्रत्ययादात्मनेपदस्य विहितत्वात् । पणवा वाद्यविशेषाः
हताः पाणविकैस्ताडिताः दध्वनुर्ध्वनिताः । काहलाः गोशृङ्गसंस्थानाः । पूरयांचक्रुः
पूरितवन्तः । 'पुरी आप्यायने' इति चौरादिकस्योदात्ततो रूपम् । पेराः खरमु-
खाकाराः पूर्णा सुखमरुता सस्वनुः । '२३५४ । फणां च सप्तानाम् ।६।४।१२५॥
इति लिटि एत्वविधानस्य विकल्पितत्वात् नैत्वम् ॥
 
१०७२ - मृदङ्गा धीरमा॑स्वेनु॒र्, हतैः स्वेने च गोमुखैः ॥
 
घण्टाः शिशिञ्जिरे दीर्घ, जहादे पटहैर भृशम् ॥४॥
मृदङ्गा इत्यादि – मृदङ्गा मुरजाः धीरं आस्वेनुः गम्भीरं ध्वनिताः । एत्व-
पक्षे रूपम् । गोमुखैर्वाद्यविशेषैः हतैः स्वेने शब्दितम् । भावे लिट् । घण्टाः
दीर्घ शिशिञ्जिरे उच्चैः शब्दितवत्यः । पटहेर्भृशमत्यर्थम् । जहाड़े शब्दितम् ।
भावे लिट् ॥
 
-
 
१०७३ - हया जिहेषिरे हर्षाद्, गम्भीरं जगजुर् गजाः ॥
संत्रस्ताः करभा रेटुश, चुकुवुः पत्ति-पचयः ॥५॥
हया इत्यादि – हया अश्वा: हर्षात् जिहेपिरे हेषितवन्तः । '६६४) हेष
अव्यक्ते शब्दे' भौवादिकोऽनुदात्तेत् । अभ्यासस्य [ २१८०। हस्त्रः १७१४४९१]
इति एत इन्द्भवति । गजा गम्भीरं मन्द्रं जगजुः गर्जितवन्तः । 'गज गजी
शब्दार्थो ।' करभा उष्ट्रा: संत्रस्ताः नानावादिनश्रवणात् रेटुः शब्दं कृतवन्तः ।
'रट परिभाषणे' इति शब्दार्थः । पत्तिपयः पदातिसंहतयः चुकुवुः शब्दित-
वत्यः । गच्छत किं तिष्ठतेति । 'कु शब्दे' इत्युदात्तेत् ॥
 
१०७४ - तुरङ्गा-पुस्फुटुर् भीताः, पुस्फुरुर् वृषभाः परम् ॥
नार्यश चुक्षुभिरे मम्लुर् मुमुहुः शुशुचुः पतीन्. ६
 
तुरङ्गा इत्यादि - तुरङ्गा अश्वा भीता वादित्रश्रवणात् पुस्फुटुः स्फुटिताः
भयादितस्ततो गताः । 'स्फुट विशरणे' । वृषभाः परं पुस्फुरुः सुष्टु वलिताः ।
'स्फुर वलने ।' नार्यश्रुक्षुभिरे अस्माकमायातो वियोग इति क्षोभमुपगताः । व्यस्त-
चित्ता जाता इत्यर्थः । काश्चिदामम्लुः । 'ग्लै गात्रक्षये' । मुमुहुः कश्चिन्मोहमु
पगताः पतीन् काश्चित् शुशुचुः शोचितवत्यः । हा कष्टं नियतं विनष्टा इति ॥
१०७५ - जगर्जुर्, जहषुः शूरा रेजुस् तुष्टुविरे परैः ॥
 
>
 
बबन्धुरंङ्गुलि-त्राणि, सन्नेहुः परिनिर्ययुः ॥ ७ ॥
जगर्जुरित्यादि - शूरा जगर्जुः अस्माभिर्वृष्टाः शराः क्व यास्यन्तीति शब्दित-
वन्तः । तथा जहृषुः तुष्टाः चिरमायातः समर इति । '१३०८ । हृष तुष्टौ ।'
अत एव रेजुः शोभन्ते स्म । '३५४ । फणां च सप्तानाम् ।६।४।१२५।' इत्ये-
त्वाभ्यासलोपौ । परैरन्यैस्तुष्टुविरे स्तुताः । भवतामग्रतः समरे के तिष्ठन्तीति ।
 
भ० का० ३०