This page has not been fully proofread.

३४८ भट्टि-काव्ये – चतुर्थे नित-काण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
गणो जलघरसमूहः तेन समच्छायं तुल्यच्छायं रावणबलं अढादिषु समारूढम् ॥
एतानि द्वाविंशतिः संकीर्णानि ।
 
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये -
तृतीये प्रसन्न काण्डे लक्षण-रूपे चतुर्थः परिच्छेदः ( वर्गः ),
तथा लक्ष्य - रूपे कथानके 'सेतुवन्धनं' नाम
त्रयोदशः सर्गः ॥ १३ ॥
 
चतुर्दशः सर्गः-
सुप्तिव्युत्पत्तौ यत्सौष्ठवं तदपि काव्यस्याङ्गमुक्तम् । अतः प्रसन्नकाण्डानन्तरं
तिङ्काण्डं शब्दलक्षणप्रयोगार्थं कथ्यते । तत्र लस्य स्थाने तिवादयः । लका-
राश्च नव लेटश्छन्दोविषयत्वादिति । अत्र नवविलसितानि । विलसितं च नाना-
रूपता । तत्र भूतार्थवतो लिटोऽधिकृत्य तद्विलसितमाह -
 
१०६९ - ततो दशऽऽस्यः स्मर-विह्वलाऽऽत्मा
चार - प्रकाशीकृत - शत्रु-शक्तिः ॥
विमोह्य माया - मय राम-मूर्ध्ना
 
सीताम॑नीकं प्रजिघाय योद्धम् ॥ १ ॥
 
तत इत्यादि — ततः स्वपरबलयो रणादुत्तरकालं दुशास्यः स्मरविह्वलामा
कामवशीकृतदेहः । भर्तरि निराशा सती सीता ममानुकूला भविष्यतीति माया-
मयेन मायास्वभावेन राममूर्ध्ना छिन्नेन सीतां विमोय मोहयित्वा चारैः प्राण-
घिभिः प्रकाशीकृता शत्रुशक्तिः वैरिसामर्थ्यं यस्मै योद्धुमनीकं सैन्यं प्रजिघाय
ग्रहितवान् । ८२५३३॥ हेरचडि ।७।३।५६।' इति कुत्वम् । भूतानद्यतन-
परोक्षे सर्वत्र लिट् ॥
 
१०७० - कम्वूनथ समादध्मुः, कोणैर् भेर्यो निजघ्निरे, ॥
 
वेणून पुपूरिरे, गुञ्जा जुगुञ्जुः कर घट्टिताः ॥ २ ॥
कम्वूनित्यादि — अथ सैन्यप्रेषणानन्तरं कम्वून् समादध्मुः शब्दितवन्तः
शाङ्खिकाः । कोणैर्वाद्यवादनैः काष्टमयैः भेर्यो निजनिरे ताडिताः कर्मणि लिट् ।
वेणून वंशान् पुपूरिरे मुखमरुता पूरितवन्तः । १२२६ । पूरी आप्यायने' इति
दैवादिकोऽनुदात्तेत् । गुञ्जा: समरवादनाः करघट्टिताः अङ्गुलिघृष्टाः जुगुञ्जुः
शब्दितवत्यः । '२१२ । गुजि अव्यक्ते शब्दे ॥
 
१०७१ - वादयांचक्रिरे ढक्काः, पणवा दध्वनुर् हताः ॥
 
काहला: पूरयांचक्रुः, पूर्णाः पेराश च सस्वनुः ॥३॥
वादयामित्यादि — ढक्का वादयांचक्रिरे वादितवन्तः । ढक्कावादका इत्यर्थः ।
संयन्तात् आमि २३११। अयमन्त-।६।४।११।' इत्ययादेशः १२२४० ।
 
C