This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सेतुवन्धनं' नाम त्रयोदशः सर्गः- ३४७
 
वीर रसाsलङ्कारं
 
गुरु- संचार - हय - दन्ति-स-मही-कम्पम् ॥ ४७ ॥
असीत्यादि — अस्यादीनां वरबाणपर्यन्तानां न्ः । तैरस्यादिभिः गुरु
अनभिनवनीयं पुरु महन्मुसलं यन्त्र । अस्यादिगुरु च तत् पुरु मुसलं चेति सः ।
वीररस एवालङ्कारो यस्य । पुरुः संचारो येषां हयदन्तिनां महाकायत्वात् तैः
समहीकम्पं सह महीकम्पेन वर्तमानं परबलं संनद्धम् ॥
१०६६ - ते रामेण स रभसं
 
परितरला हरि-गणा रण-समारम्भे ॥
रुद्धा लङ्का-परिसर-
भू-धर- परिभङ्ग - लालसा धीर खम् ॥ ४८ ॥
 
ते इत्यादि — ते हरिगणाः कपिगणा: रणसमारम्भे रणप्रवर्तननिमित्त सर-
भसं संभ्रमपूर्वकं परितरलाः स्थातुमशक्नुवन्तः लङ्कापरिसरे लङ्कासमीपे ये भूधराः
तरवः तेषां परिभङ्गे चूर्णने लालसाः सतृष्णाः सन्तो रामेण
भाङ्गुरिति । धीररवं धीरो रखो यस्यां प्रतिषेधनक्रियायामिति ॥
 
रुद्धाः प्रतिषिद्धाः
 
मा
 
युग्मकम् -
 
१०६७-जल- तीर-तुङ्ग-तरु-वर-
कन्दर - गिरि-भित्ति-कुञ्ज - विवराऽऽवासम् ॥
भीमं तरु - हरिण-बलं
 
सु-समिद्ध-हिमारि-किरण-माला-लोलम्. ४९
 
जलेत्यादि – तरुहरिणवलं कपिबलं निषिद्धं सत् भीमं भयानकं जलती-
राघैरावासो यस्य तत् सुसमिद्धस्य हिमारेरझेरादित्यस्य वा या किरणमाला
तल्लोलं समारूढमिति वक्ष्यमाणेन संबन्धः ॥
 
१०६८ - रावण-बलमेवगन्तुं
 
जल-भर-गुरु-सलिल-वाह-गण-सम-च्छायम् ॥
अट्ट - तरु मञ्च - मन्दिर-
तोरण-माला- सभासु समारूढम् ॥ ५० ॥
 
"
 
इति भट्टि-काव्ये प्रसन्न काण्डे भाषा-समावेशो
नाम चतुर्थः, काव्यस्य त्रयोदशः सर्गः ।
 
रावणेत्यादि — रावणबलं अवगन्तुं कीदृशमिति जलभरेण गुरुयैः सलिलवाह-