This page has not been fully proofread.

३४६
 
भट्टि- काव्ये तृतीये - प्रसन्न काण्डे लक्षण रूपे चतुर्थो वर्गः,
 
वाहास्तेषां मालाया (यत्संबद्ध ) यः संवन्धः संबन्धनम् । भावे क्तः । तेन करण-
भूतेन आबद्धा अनुकृता हिमधराधरस्य हिमवतो धराधरस्य लीला विमो
येन र्त सुवेलं आरूढम् ॥
 
रामबलं कीदृशमित्याह-
१०६२ - लवण जल-वन्ध-स-रसं
 
तरु- फल-संपत्ति-रुद्ध - देहाऽऽयासम् ॥
लङ्का-तोरण-वारण-
मारूढं समर- लालसं-राम-वलम् ॥ ४४ ॥
 
लवणेत्यादि - लवणजलवन्धाद्धेतोः सरसं सहर्पम् । तरुफलसंपत्त्या रुद्रो.
अपनीतः देहायासः पीडा यस्य । लङ्कातोरणस्य वारणं निषेधकम् । आलोलं
चञ्चलं समरलालसं रणसतृष्णं रामवलं तं सुवेलमारूढमिति पूर्वेण योज्यम् ।
तस्मिन्नारूढे परबलं सन्नद्धमित्थं प्रवृत्तमित्यर्थः । इत्थं कथं तदाह गुरुपण.
चेत्यादिना -
 
विशेषकं त्रिभिः ।४५-४७/-
१०६३ - गुरु-पणव- वेणु-गुञ्जा-
भेरी-पेलोरु झल्लरी- भीम रवम् ॥
ढक्का-घण्टा-तुमुलं
 
सन्नद्धं पर-वलं रणा॒ऽऽयास सहम् ॥ ४५ ॥
गुर्वित्यादि गुरुपणवादीनां भीमो रखो यस्मिन् परवले तत्र । गुरुपणवो
महान् पणवः । पेला वाद्यविशेषः । उरुझल्लरी महती झल्लरी । ढक्काघण्टयो-
स्तुमुल: संमूर्च्छितः शब्दो यत्रेति । रणायाससहं रणक्लेशसहम् ॥
१०६४ - आरूढ - वाण-घोरं
 
वि-माऽऽयस - जाल- गूढ-पीवर-देहम् ॥
चञ्चल-तुरङ्ग-वारण-
-
 
आरूढेत्यादि
 
संघट्टदा॒ऽऽबद्ध-चारु-परिणाह-गुणम् ॥ ४६ ॥
— धनुषि आरूढबाणत्वात् घोरं परबलम् । विमलेनाय-
सजालेन वर्मणा गूढश्छन्नः पीवरः स्थूलो देहो यस्य । चञ्चलानां तुरङ्गाणां
वारणानां च यः परस्परसंघट्टः श्लेषणं तेनाबद्धश्वारुः परिणाहगुणः विस्तार एव
गुणो यस्य तत्परबलं संनद्धम् ॥
 
१०६५ - असि-तोमर कुन्त-महा-
पट्टिश - भल-वर-वाण-गुरु-पुरु-मुसलम् ॥