This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सेतुवन्धन' नाम त्रयोदशः सर्गः- ३४५
 
अमराऽऽरुढ - परिसर
मेरुमिवा ssविल स-रस- मन्दार-तरुम् ॥४०॥
 
अमलेत्यादि–अमलमणीनां हेमादीनां टङ्काइछेदा यत्र । तुङ्गा उच्चा
महती विस्तारवती या भित्तिस्तया रुडो रुरूणां मृगाणां पङ्कगमः पङ्केन गमनं
यत्र । गमैः '३२३४॥ ग्रह । ३।३।५८।' इत्यादिना अप् । वङ्कगमं इति पाठा-
न्तरम् । तत्र वङ्कः कुटिलो गमो यन्त्र । 'वकि कौटिल्ये' इत्यस्य रूपम् ।
अमरैरारूढाः परिसरास्तटा यत्र । अविरलाः सरसा मन्दारतरवो देववृक्षा
यत्र । तमित्थं मेरुमिव ॥
 
१०५९ - फल-भर-मन्थर-तरु-वर-
म-विदूर - विरूढ - हारि- कुसुमाऽऽपीडम् ॥
हरिण - कलङ्क-मणि-संभव-
बहु-वारि-भर-सुगम्भीर-गुहम् ॥ ४१ ॥
 
फलेत्यादि - फलभरेण मन्थरा ईषन्नतास्तरुवरा यन्त्र । अविदूरे विरूढा
हारिणः कुसुमापीडा यत्र । पुष्पस्तत्रकानां हस्तग्राह्यत्वात् हरिणकलङ्कमणिः
महाचन्द्रकान्तः तस्मात् संभवो यस्य बहुवारिणः तेन सुभराः परिपूर्णा गम्भीरा
गुहा यस्य । अत्र मणिमहत्तया वारिमहत्त्वात् गम्भीरगुहापूरणमिति ॥
 
१०६० - जल-काम-दन्ति-संकुल-
स- हेम-रस- चारु- धवल - कन्दर - देहम् ॥
अङ्कुर-रोह-सम-च्छवि-
रुरु गण - संलीढ- तरल-हरि-मणि-किरणम् ४२
 
जलेत्यादि – जलमेतदित्येवं कामैर्दन्तिभिः संकुलाः सहेमरसाः सह हेम-
रसेन वर्तमानाः चारवः शोभनाः धवला: कन्दरदेहा: कन्दरसन्निवेशा यत्र ।
रोहणं रोहः अङ्कुरागोहो यस्य शस्यस्य तेन समच्छवयस्तुल्यवर्णा रुरुगणास्तैः
संलीढाः तरलाश्चञ्चलाः हरिमणिकिरणा मरकतमयूखा यन्त्र ॥
 
१०६१ - गाढ - समीरण-सुसहं
भीम रवोत्तुङ्ग - वारि-घर-संघट्टम् ॥
धवल - जल-वाह-माला-
सं॑बन्धऽऽबद्ध - हिम-धरा-धर-लीलम् ॥४३॥
 
गाढेत्यादि — गाढो महान् यः समीरणः तं सुसहत इति मूलविभुजादि-
त्वात्कः । भीमरवास्तुङ्गा ये वारिधरास्तेषां संघट्टो यत्र । धवला ये जल-