This page has not been fully proofread.

३४४ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
चारु-गुहा - विवर- सभं
 
सुर-पुर- समर्मसर - चारण-सुसंवम् ॥ २६ ॥
 
तुजेत्यादि - तुझमणीनां किरणजाएं यत्रेति । गिरिजलानि निर्झरजलानि
तेषां यः संघट्टः परस्परसंश्लेषस्तेन बद्धो गम्भीरो रखो यत्र । चारुगुहाविवरमेव
सभा शाला यत्र । अमरचारणानां गन्धर्वाणां गायतां शोभन: संरावो यन्त्र ।
अत एवामरपुरसमम् ॥
 
१०५५ - विमल - महा-मणि- टङ्क
 
सिन्दूर- कलङ्क-पिञ्जर-महा-भित्तिम् ॥
वीर - हरि-दन्ति-सङ्गम-
भय-रुद्ध - विभावरी विहार- समीहम् ॥ ३७ ॥
 
-
 
विमलेत्यादि – विनलमहामणीनां पद्मरागादीनां टङ्काः छेदा यन्त्र । अतश्च
सिन्दूरकलेन लाञ्छनेन पिञ्जरा इव महाभित्तयो यस्य । वीराणां हरीणां
दन्तिनां च यः सङ्गमोऽन्योन्यगमनं तस्माद्यन्द्रयं तेन रुद्वा निवारिता विभा.
वर्यां विहारसमीहा विहरणेच्छा यत्र ॥
 
१०५६ - स महा- फणि-भीम विलं
भूरि-विहङ्गम-तुमुतो॒रु - घोर विरावम् ॥
वारण- वराह-हरि-वर-
-
 
गो-गण- सारङ्ग-संकुल-महा-सालम् ॥ ३८ ॥
 
समेत्यादि – समहाफणीन्यत एव भीमान बिलानि विवराणि यत्र भूरीणां
विहङ्गमानां तुमुलोऽनेकप्रकार उरुर्महान् घोरो रौगो विरावो यत्र वारणादिभिः
स्कन्धकर्षणार्थिभिः सङ्कला महासाला यत्र ॥
 
१०५७ - चल किसलय-स- विलासं
 
M
 
चारु-मही-कमल-रेणु - पिञ्जर-वसुधम् ॥
स- कुसुम - केसर-बाणं
 
लवड - तरु- तरुण वल्लरी-वर-हासम् ॥ ३९ ॥
चलेत्यादि – चलैः किसलयैः हस्तैरिव सविलासं प्रारब्धनृत्यम् । चारूंणां
महीकमलानां स्थलजानां रेणुभिः पिञ्जरा वसुधा यत्र । सकुसुमाः केसराः बाणाच
यत्र । लवङ्गतरोस्तरुणा या वल्लर्यः प्ररोहास्ता एव वरो हासो विकासाख्यो यत्र ॥
 
१०५८ - अ - मल-मणि-हेम-टङ्क
 
तुझं-महा- भित्ति-रुद्ध- रुरु-पङ्क-गमम् ॥