This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सेतुबन्धन' नाम त्रयोदशः सर्गः- ३४३
 
लङ्कत्यादि – लङ्काल्यानां राक्षसानां यस्तुमुलो महानारवः तेन सुभराः
परिः गतीरोरुकुआ गम्भीरतहागहनानि कन्दरविचराणि च यत्र सुवेले ।
वीगारवे यो रसस्तृष्णा तेन सङ्गमः सनागमो येषां सुरगणानां ते च सुरग-
पश्चेिति सः । तैः संकुला व्याप्ता महातमालच्छाया यत्रेति ॥
 
२०५१ - स रस बहु-पलवाssविल-
केसर - हिन्ताल-वद्ध-वहल-च्छायम् ॥
ऐरावण-मद-परिमल-
गन्धवहाऽऽवद्ध-दन्ति-संरम्भ-रसम् ॥ ३३॥
सरसेत्यादि-
ई-सरसा: सार्द्राः ये वहवः पल्लवाः तैराविला अन्धकारिता
ये केसरवृक्षाः हिन्तालवृक्षाश्च तैर्बद्धा पहला बना छाया यन्त्र सुवेले । ऐराव-
गस्य ऐरावतस्य हस्तिनो महपरिसलो यत्मिन् गन्धवहे तादृशेन गन्धवहेन
वो दन्तिनां हस्तिनां संरम्भरसः क्रोधरसो यन्त्रेति । ऐरावण ऐरावत इत्यु -
भयमपि ग्राकृते साधु ॥
 
१०५२-तुङ्ग - तरु-च्छाया- रुह-
कोमल-हरि-हारि-लोल-पल्लव-जालम् ॥
हरिण भयंकर-स- कुसुन-
दाव-सम-च्छवि - विलोल - दाडिम-कुञ्जम् ॥ ३४ ॥
 
तुङ्गेत्यादि — तुङ्गतरूणां या छाया तस्यां रोहन्तीति इगुपधलक्षणः कः ।
तुङ्गतरुच्छायारुहाः विटपाः तेषां कोमलं हरि हरितं हारि तुष्टिकरं लोलं पल्लव-
जालं यत्र । हरिणानां भयंकरा दावसहशत्वात् सकुसुमदावसमच्छवयः दावा-
नितुल्या: लोलदाडिमकुञ्जा यत्र ॥
 
१०५३ - कल - हरि कण्ठ-विरावं
 
सलिल - महा-वन्ध-संकुल- महा-सालम् ॥
चल-किसलय-संबद्धं
 
मणि-जालं सलिल - कण-मयं विवहन्तम् ॥ ३५॥
 
कलेत्यादि –कलो मनोहरः हरीणां कण्ठविरावो यत्र । सलिलस्य यो
महाबन्धस्तेन संकुला महान्तः सालाः सालवृक्षा यत्र । चलकिसलयेषु संबद्ध
संलग्नं सलिलकणमयं सलिलकणरूपं मणिजालं मणिसमूहमिव विवहन्तं
धारयन्तम् ॥
 
१०५४ - तुङ्ग-मणि- किरण-जालं
 
गिरि- जल-संघट्ट-वद्ध-गम्भीर रवम् ॥