This page has not been fully proofread.

३४२ मट्टिकाव्ये – तृतीयेऽप्रसन्न काण्डे लक्षण-रूपे चतुर्थी वर्गः,
१०४७ - गिरि- पङ्क- चारु-देहं
कक्कोल-लवङ्ग-बद्ध-सुरभि परिमलम् ॥
बहु-बहलोरु-तरङ्गं
 
परिसरमा॑ारूढर्मुद्धरं लवण-जलम् ॥ २९ ॥
गिरीत्यादि - गिरीणां प्रक्षिप्यमाणानां यः पकः गैरिकादिधातुकर्दमः तेन
चारुदेहम् । कक्कोललवङ्गाभ्यां बद्धः सुरभिः परिमलो गन्धो यस्मिन् । वहवः
प्रभूता बहलाः स्थूला उरवः उच्चास्तरङ्गा यस्य तदीदृशं लवणजलम् । उदरम्
उद्धृतं कर्तृभूतम् । परिसरं तटमारूटं सेतुना निवारितगतित्वात् ॥
 
१०४८ - लोलं कुलाऽभिगमे
 
से तुङ्गाऽमल - निबद्ध पुरु-परिणाहम् ॥
सुर- गङ्गा भरण-सहं
 
गिरि- बन्ध-वरेण लवण-सलिलं रुद्धम् ॥ ३० ॥
लोलमित्यादि – कुलाभिगमने तटगमने लोलं चञ्चलम् । खे आकाशे तुङ्गं
च तदमलं चेति तुङ्गामलम् । निवद्धः संयुक्तः पुरुर्महान् परिणाहो यस्य ।
तुङ्गामलं च तन्निरुद्धपुरुपरिणाहं चेति । वियति आरोहपरिणाहाभ्यां युक्तमि-
त्यर्थः । सुरगङ्गायाः मन्दाकिन्याः यद्भरणं पूरणं तत्र सहं शक्तं तादृशं लवण-
जल गिरिबन्धवरेण सेतुना रुद्धम् ॥
 
w
 
कुलकम् - १३१-४३१-
१०४९ - आरूढं च सुवेलं
 
तरु - मालाऽऽवन्ध-
हारि- गिरि-वर-जालम् ॥
रावण- चित्त-भयङ्कर-
मपिङ्गल - लोल - केसरं राम-बलम् ॥ ३१ ॥
आरूढमित्यादि – रामवलं तटे स्थित्वा आरूढं च सुवेलं पर्वतम् । धका-
रस्य प्राकृते स्वरशेषता न भवति । पदमध्यान्तयोरवर्तमानत्वात् । तरुमालाया
य आबन्धः तेन हारि मनस्तुष्टिकरं तादृशं गिरिवराणां पर्यन्तगिरीणां जालं
यस्य सुवेलस्य । रावणचित्तस्य भयङ्करं रामबलम् । आपिङ्गलानि लोलानि
केसराणि यस्य तदिति ॥
 
१०५०-लङ्काऽऽलय-तुमुलाऽऽरव-
सुभर- गभीरोरु - कुञ्ज - कन्दर - विवरम् ॥
वीणा-रव-रस-सङ्गम-
सुर-गण-संकुल- महा-तमाल-च्छायम् ॥ ३२ ॥