This page has not been fully proofread.

३४० भट्टि- काव्ये - तृतीये प्रसन-काण्डे लक्षण-रूपे चतुर्थो वर्ग,
 
वद्ध-विहङ्गम-मालं
 
हिम- गिरिवि मत्त-कुरर-रव-संबद्धम् ॥ २३॥
चहित्यादि बहवो धवला वारिवाहा यत्राम्बरे ! विमलायसः अयसो
विकारः गुरुरलघुर्महान् योऽसिः खड्गः तस्य यो देहः तस्य छायेव छाया यस्य ।
बद्धा विरचिता विहङ्गानां माला पकिर्यत्र । मत्तानां कुरराणां रवेण संबद्ध
युक्तम् । अतो हिमगिरिमिवाम्बरमारूढा इति ॥
 
१०४२ - चारु- कलहंस-संकुल-
मं-चण्ड - संचार - सारसाऽऽवद्ध - रवम् ॥
स- कुसुम- कण-गन्ध-वहं
 
समयाऽऽगम - वारि-सङ्ग - विमलाऽऽयामम्. २४
चारुकलहंसेत्यादि - चारुभिः कलहंसैः संकुलं व्याप्तम् । अचण्डसंचारैः
शनैः संचरद्भिः सारसैरावद्धो वो यस्मिन् । सकुसुमकणः सपुष्परेणुर्गन्ध
वहो वायुर्यत्रेति । वहतीति बहः कर्तर्यच् । गन्धस्य वह इति सः । समयस्य
प्रावृद्ट्रकालस्य य आगमः तेन यो वारिसङ्गः तेन प्रक्षालितत्वात् विमला आयामा
यत्र तदम्बरमारूढा इति ॥
 
१०४३ - सहसा ते तरु- हरिणा
 
गिरि- सुभरा लवण - सलिल-वन्धाऽऽरम्भे ॥
तीर - गिरिमारूढा
 
रामाऽऽगम-रुद्ध-स-भय-रिपु - संचारम् ॥२५॥
एतानि चत्वारि संकीर्णानि ॥
 
सहसेत्यादि — ते तरुहरिणा: शाखामृगाः गिरिभिः सुभराः सन्तः लवण-
सलिलबन्धारम्भे समुद्रबन्धनारम्भे सहसा तत्क्षणं तीरगिरिं तटस्थतं पर्वत-
मारूढाः । अत्र संस्कृतपक्षे संहिताया अविवक्षितत्वात् तीरगिरिमारूढा इति
नोक्तम् । अन्ये आरूढा तीरगिरिमिति विपर्ययमस्य पठन्ति । यदयुक्तम् ।
संस्कृतपक्षे अस्भावाद्यत्वं नास्ति । अतो विसर्जनीयस्य सकार एव स्यात् । रामस्य
य आगमस्तेन रुद्धः सभयानां रिपूणां शत्रूणां संचारो यत्र तीरगिरौ । राम
आगत इति तत्र भयात् संचारं त्यक्तवन्त इति ॥ एतानि चटवारि संकीर्णानि ॥
 
१०४४ -- ततः प्रणीताः कपि- यूथ - मुख्यैर्
न्यस्ताः कृशानोस् तनयेन सम्यक् ॥
अ-कम्प बनाऽग्र - नितम्ब भागा
 
"
 
महाऽर्णवं भूमि-भृतो ऽवगाढ़ाः ॥ २६ ॥
 
निराख्यातं निरवद्यं च ॥