2023-02-15 17:22:42 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'सेतुवन्धनं' नाम त्रयोदशः सर्गः-
१०३८ - हरि-रव-विलोल-वारण-
गम्भीराऽऽवद्ध-स-रस-पुरु-संरावम्
घोणा-संगम-पङ्काss-
॥
विल-सुवल-भर-महोरु-वराहम् ॥ २० ॥
एतानि पञ्च संकीर्णानि ॥
-
हरिरवेत्यादि — हरीणां सिंहानां यो रवस्तेन विलोलास्त्रस्नवो ये वारणा-
स्तैर्गम्भीरो मन्द्र आवडो जानतः सरसो भयानकरसयुक्तः पुरुर्महान् संरावो
यत्र । घोणायाः संगमात् संपर्कात् संभवो यस्य पङ्कस्य । घोणासमुद्धृतो यः
पङ्क इत्यर्थः । तेनाविला लिप्ताङ्गाः सुबलाः तत एव भरसहाः उरवश्च वराहा
यत्र । तद्द्विरिजालमालमवगाढमिति ॥ एतानि पञ्च संकीर्णानि ॥
१०३९ - उच्चख्नुः परिरधान
कपि-सङ्घा वाहुभिस् ततो भूमि-भृतः ॥
निष्पिष्ट शेष-मूर्भ:
शृङ्ग - विकीर्णोष्ण - रश्मि - नक्षत्र - गणान् ॥२१॥
सर्वे निरवद्यम् ॥
उच्चस्नुरित्यादि — ततोऽवगाहादनन्तरं बाहुभिः परिरब्धान् समाविष्टान्
भूमिभृतः पर्वतान् कपिसङ्घा उच्चख्नुः उत्खातवन्तः । '२३६३। गम-हन-
।६।४।१८।' इत्युपधालोपः । निप्पिष्टशेषमूर्ध्नः व्याप्तपातालमूलत्वात् चूर्णित-
नागराजमस्तकान् । शृङ्गैः शिखरैर्विकीर्ण उष्णरश्मिरादित्यो नक्षत्रगणश्च यैर्दिव
व्याप्य स्थितत्वात् ॥ सर्वं निरवद्यमिति अत्र प्राकृतस्याप्रयुक्तत्वात् ॥
विशेषकं त्रिभिः । २२-२४/-
१०४० - तुङ्ग महा-गिरि-सुभरा
बाहु-समारुद्ध-भिदुर-टङ्का बहुधा ॥
लवण-जल-वन्ध-कामा
आरूढा अम्बरं महा-परिणाहम् ॥ २२ ॥
तुङ्गेत्यादि —तुङ्गा उच्चा महान्तः परिणाहवन्तो ये गिरयस्तैः सुभरा जात-
भराः कपयः बाहुभिः समारुद्धा भिदुराः विदारणशीला: टङ्का उन्नत प्रदेशा
यैस्ते बहुधा अनेकप्रकारं लवणजलबन्धकामाः एवमेवं बद्धव्यमिति जातेच्छाः
आरूढा अम्बरं महापरिणाहम् अप्रमेयदिग्विभागम् ॥
१०४१ - बहु - धवल वारि-वाहं
विमलाssयस-महाऽसि देह-च्छायम् ॥