This page has not been fully proofread.

३३८ भट्टि- काव्ये तृतीये प्रसन्न - काण्डे लक्षण-रूपे चतुर्थो वर्गः,
आरूढं सहसा खं
 
वरुणा॒ssलय - विमल-सलिल-गण-गम्भीरम् १६
गुर्वित्यादि- ततो रामवलं सहसा तत्क्षणं खमारूढम् । गुरूणां गिरिव•
राणां यदाहरणमानयनं तत्सहत इति मूलविभुजादित्वात् कः । तस्य वा सहं
शक्तम् । सहत इत्यच् । संहारे प्रलये यो हिमारिरग्निः तद्वत्पिङ्गलम् । वरुणाल-
यस्य समुद्रस्य यो विमलसलिलगणः निर्मलजलसमूहः तद्वद्गम्भीरं खमिति ॥
कलापकं चतुर्भिः १७-२०
 
१०३५ - अवगाढं गिरि-जालं
 
तुङ्ग - महा-भित्ति-रुद्ध सुर- संचारम् ॥
अ-
भयहरि रास - भीमं
 
करि-परिमल - चारु-बहल - कन्दर-सलिलम्. १७
अवगाढमित्यादि – ग्वमारुह्य रामवलेन गिरिजालमवगाढं अवष्टब्धम् ।
तुङ्गाभिरुच्छ्रिताभिर्महतीभिः परिणाहवतीभिर्भित्तिभी रुद्धः सुराणां संचारो
यस्मिन् तेपामुन्नतत्वात् । अभया ये हरयः सिंहास्तेषां रासेन शब्देन भीमं
भयानकम् । करिणां यः परिमल: संमर्दस्तेन चारु शोभनम् । वहलं वर्न कन्दर
सलिलं यस्मिन् ॥
 
१०३६ -
 
अलि-गण-विलोल-कुसुमं
 
P
 
स- कमल-जल-मत्त-कुरर-कारण्डव-गणम् ॥
 
फणि-संकुल-भीम-गुहं
 
करि-दन्त- समूढ-स-रस-वसुधा - खण्डम् ॥ १८॥
 
-
 
अलिगणेत्यादि — अलिग गैविलोलानि कुसुमानि यत्र । सकमलेषु जलेषु
मत्ताः कुरराणां कारण्डवानां च गणा यत्र । फणिभिः संकुला व्याप्ताः सत्यो
भीमा गुहा यत्र । करिदन्तैः समुत्क्षिप्तं सरसं सान्द्रं वसुधायाः खण्डं यत्र ॥
१०३७- अरविन्द - रेणु-पिञ्जर-
सारस - रव-हारि - विमल-बहु-चारु-जलम् ॥
रवि-मणि-संभव - हिम-हर-
समागमाऽऽवद्ध बहुल-सुर-तरु- धूपम् ॥ १९ ॥
अरविन्देत्यादि — अरविन्दरेणुभिः पिञ्जराः पिङ्गला ये सारसास्तेषां रवेण
हारि मनोहारि विमलं बहु चारु जलं यत्रेति । रविमणिसंभवः सूर्यकान्तमणिस-
म्भवः यो हिमहरः अग्निः तेन यः समागमः संश्लेषस्तेनाबद्धो जनितो बहुल:
सुरतरुधूपो यत्र ॥