This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सेतुबन्धनं' नाम त्रयोदशः सर्गः- ३३७
१०३१ - हर-हास-रुद्ध-विगमं
 
पर कण्ठ-गणं महा॒ऽऽहव-समारम्भे ॥
छिन्दन्तु राम-वाणा
 
गम्भीरे मे जले महा-गिरिव ॥ १३ ॥
 
हरेत्यादि - मे मम जले गम्भीरे अगाधे महागिरिभिर्बद्धे सति यो महा-
वस्य समारम्भः प्रवर्तनं तस्मिन् परस्य शत्रोः कण्ठगणं ग्रीवासमूहं हरस्य
दुष्टत्वात् यो हासः तेन रुदो विगमश्छेदो यस तं रामशराश्छिन्दन्तु ।
नाशिषि लोट् ॥
 
१०३२- गच्छन्तु चारु-हासा
 
वीर-रसाऽऽवन्ध-रुद्ध-भय-संवन्धम् ॥
हन्तुं बहु-वाहु वलं
 
.
 
हरि-करिणो गिरि-वरो॒रु-देहं सहसा ॥ १४ ॥
 
एतानि षट् संकीर्णानि ॥
 
गच्छन्त्वित्यादि — बहवो वाहव एव वलं यस्य बाहूनां तरुणामिव बहु-
वात् । तं रावण
रसस्य शौर्यस्य य आबन्धः सन्ततम्रवर्तनं तेन रूद्धो निवा-
रितो भवसंबन्धस्त्राससंपर्को यस्य तं गिरिवरोरुदेहं गिरिवन्महाकायं सहसा
इन्तुं तत्क्षणं हनिष्याम इति हरिकरिणः कपिहस्तिनः चारुहासा: मम जले बद्धे
सति गच्छन्तु ॥ एतानि षटू संकीर्णानि संस्कृत प्राकृतयोस्तुल्यत्वात् ॥
 
१०३३ - जिगमिषया संयुक्ता
 
-
 
वभूव कपि- वाहिनी मते दाशरथेः ॥
वुद्ध जलाऽऽलय - चित्ता
 
गिरि-हरणा॒ऽऽरम्भ-संभव - समालोला ॥१५॥
पूर्वाऽर्ध निरवद्यम् ।
 
जिगमिषयेत्यादि – दाशरथेर्मतेऽभिप्राये सति कपिवाहिनी कपिसेना
जिगमिषया गन्तुमिच्छया संयुक्ता बभूव । बुद्धजलालयचित्ता विदितसमुद्रामि-
प्राया गिरीणां यद्धरणमानयनं तस्य य आरम्भसंभवः तेन समालोला आकुला ॥
इत्येतदर्धं निरवद्यम् ॥
 
१०३४ - गुरु - गिरिं-वर-हरण-सहं
 
संहार - हिमारि-पिङ्गलं राम-बलम् ॥
 
भ० का० २९