This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके श्री राम-संभवो नाम प्रथमः सर्गः -
 
'२२६७। वद-व्रज - ।७१२१३।' इत्यादिना वृद्धि । '२३४२ । सः स्यार्धधातुके ।
७१४।४९॥ इति तत्वम् । आसनमिति '५४४ । उपान्वध्याङ्वसः ।१।४।४८।'
इत्यधिकरणस्य कर्मसंज्ञा ॥ त्रीण्यम्बकान्यक्षीणि अस्येति त्र्यम्बको महादेव-
स्तस्मादन्यं नोपास्थित । न पूजितवा नित्यर्थः । उपपूर्वात्तिष्ठतेः 'देवपूजा-संग-
तिकरण - मित्रकरण पथिपु ।' इति देवपूजायां तङ् । '२३८९१ स्था-ध्वोरिच ।
१।२।१७।' इत्यादिनेत्वं कित्त्वं च । '२३६९ । स्वादङ्गात् ।८।२।२७।' इति
सिचो लोपः ॥ इपून्वितीति । १२९८० । अन्येभ्यो दृश्यन्ते ।३।२।७५॥
इति विप् । इपुभृतो धनुर्धराः सर्वेषां तेषां यशांसि निरास्थत् । निरस्त
वानित्यर्थः । एतेनास्यासाधारणीकृतास्त्रत्वं दर्शितम् । 'उपसर्गादस्यत्यूयोर्वा
वचनम्' इति वचनाद्यदा उङ् नास्ति तदा तिप् । '२४३८ । अस्यति ।३।१॥५२॥
इत्यादिना च्लेरङ् । '२५२० । अस्यतेस्थुक् ।७।७४।१७।' ॥
 
४ - पुण्यो महा ब्रह्म समूह-जुष्टः
संतर्पणो नाक-सदां वरेण्यः ॥
 
जज्वाल लोक स्थितये स राजा
यथाsध्वरे वह्निर॑भिप्रणीतः ॥
 
पुण्य इत्यादि - पुनातीति पुण्यः । 'पूजो यत् णुक् हस्वश्च' इत्यौणादिको
यत् णुगागमश्च ह्रस्वश्च । अत्यन्तपुण्यकरणाद्वाजापि पुण्य इत्युच्यते । तन्मयत्वा-
दाजा । अग्निरपि पुण्यः पावनत्वात्पुण्यः । यागादिः पुण्यस्तेन पुरुषः पूयते ।
महतां वेदविदां ब्रह्मणां ब्राह्मणानां समूहेन जुष्टः सेवितो राजाग्निश्च । ब्रह्मश-
दोऽत्र ब्राह्मणपर्यायः । नाके स्वर्गे सीदन्तीति '२९७५ । सत्-सू- द्विप - ३२॥
६१।' इत्यादिना किप् । नाकसदो देवास्तेषां । कर्मणि पष्ठी । संतर्पयति प्रीणय-
तीति संतर्पणः । संतर्पयते: '२८४१॥ कृत्यल्युटो बहुलम् ।३।३।११३।' इति
कर्तरि ल्युट् । राजा यागादिना तर्पयति । अग्निरप्यग्निमुखत्वाद्देवानाम् । वरेण्यः
श्रेष्ठो राजाग्निश्च । 'वृङ एण्यः' । जज्वाल प्रदीप्तवान् । लोकस्थितये माभूल्लोकस्य
स्थित्यतिक्रम इत्येवमर्थम् । अग्निरपि लोकस्य स्थितये ज्वलति । यथोक्तम्-
'अग्नौ प्रास्ताहुतिः सभ्यगादित्यमुपतिष्ठते । आदित्याजायते वृष्टिवृ॑ष्टेरनं ततः
 
1
 
१ - १३२२ । वेदस् तत्त्वं तपो ब्रह्म, ब्रह्मा विप्रः प्रजापतिः ।' इति ना० अ० ।
यथा-
'ब्रह्माणौ ब्रह्मणो ब्रह्म ब्राह्मणा वेत्तुमर्हतः । एतत्-पद्याऽर्थ-बाह्याऽर्थोऽपि न स्यात्
कोशमन्तरा. ॥" इति कोशावतंसः । २ – २९७५ । सत्-सू-द्विष-द्रुह-दुह-युज-विद
भिदच्-छिद-जि·नी-राजामुपसर्गेऽपि किप् ( ० ) ।३।२१६१॥ एभ्यः किप् स्यादुपसर्गे
सत्यसति च सुप्युपपदे । यथा - चु-सत् । उप-निषत् । अण्डसू: । प्रसूरित्यादि ।" इति
वै० भ० । ३- '२२८७ । उपसर्गाद-समासेऽपि णोपदेशस्य ।८।४।१४। उपसर्गस्थान्निमि-
तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदति ।"
 
i