This page has not been fully proofread.

३३६ भट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
-
 
-
 
तुङ्गा इत्यादि — गिरिवरदेहाः कुलपर्वतकायाः तुङ्गाः प्रांशवः, अगमं सलिलं
अगम्यम् । '३२३४ । ग्रह – ।३।३।५८ । इत्यादिनाप् । समीरणो रसहारी अपा-
मुच्छोषकः, अहिम उष्णः रचेः किरणगणः । एतत्सर्वं तव माया परमा महती
संसारस्य कारणम् । सर्वथा त्वं विष्णुः त्वत्कृतेपु को रोप इति ॥
१०२८ - आयास संभवारुण !
 
संहर संहार - हिम-हर-सम-च्छायम् ॥
वाणं, वारि-समूहं
 
"
 
संगच्छ पुराण- चारु- देहाऽऽवासम् ॥ १० ॥
आयासेत्यादि – यस्मात्संसारकारणं यद्गर्ग्य सलिलं कृतं, तस्मात्त्वं हे
आयाससंभवारुण रोषसंभवेन रक्तीभूत ! संहारे प्रलये हिमहरा आदित्यास्तैः
समा छाया यस्य बाणस्य तं संहर उपशमय । वारिसमूहं संगच्छ अङ्गीकुरु ।
सकर्मकत्वात् '२६९९। समो गमि-।१।३।२९।' इत्यात्मनेपदं न भवति । पुराणः
शाश्वतः दर्शनीयो यो देहः तत्य आवासमवस्थानम् ॥
१०२९ - अ-सुलभ - हरि-संचारं
 
जल- मूलं बहल-पङ्क-रुद्धाऽऽयामम् ॥
भण किं जल-परिहीणं
 
1
 
सु-गमं तिमि -कम्बु- वारि- चारण-भीमम् ॥ ११ ॥
असुलभेत्यादि – अन्यञ्च यदेतज्जलमूलं जलस्यावस्थानं आग्नेयशरशोषि-
तत्वाज्जलपरिहीणं सत्, तत् किं सुखेन गम्यत इति भण ब्रूहि । यतो बहलः
सान्द्रो यः पङ्कस्तेन रुद्ध आयामो दैर्ध्य यत्र । तिमयो मत्स्याः कम्बवः शङ्खाः
वारिवारणाः जलहस्तिनः तैर्भीमम् । एवं च सति असुलभो दुर्लभ: हरिसंचारो
वानरपर्यटनं यत्रेति ॥
 
गमनोपायमाह -
१०३० - गन्तुं लङ्का-तीरं
 
बद्ध - महासलिल - संचरेण स-हेलम् ॥
तरु-
हरिणा गिरि-जालं
 
वहन्तु गिरि-भार- संसहा गुरु-देहम् ॥ १२ ॥
गन्तुमित्यादि—संचरन्त्यनेनेति संचरः । ३२९८ । गोचर-संचर ।३।३।-
११९ । ' इति टच् । बद्धो घटितो महासलिले यः संचरः तेन सेतुना सहेलम् ।
एकप्रवृत्त्या लङ्कातीरं लङ्कोपलक्षितं तटं गन्तुं तरुहरिणा वानरा गिरिभारस्य
संसहाः क्षमाः । संसहन्ते इत्यच् । गिरिजालं गिरिसमूहं वहन्तु । गुरुर्देहः
शरीरं यस्य गिरिजालस्य ॥