This page has not been fully proofread.

-
 
तथा लक्ष्य-रूपे कथानके 'सेतुबन्धनं' त्रयोदशः सर्गः-
चञ्चलेत्यादि–चञ्चलश्चालः
 
तरुहरजानां वानराणां गणो यत्र जलतीरे ।
बहुकुसुमानां वृक्षाणामाबन्धन परस्पर संश्लेषेण बद्धो घटितो रामावासो यत्र ।
हरिपलवानि तरुजालानि यत्र । तुङ्गा उरवः परिमण्डलाः समिद्धा उज्वला ये
रास्तैर्हिमा शीतला छाया यत्र तजलतीरम् ॥
१०२५ वर-वारणं सलिल-भरेण
गिरि- मही- मण्डल-संवर-वारणम् ॥
वसु-धारयं तुङ्ग-तरङ्ग-सङ्ग-
परिहीण-लोल-वसुधा-रयम् ॥ ७ ॥
 
कुलकम् ॥ एतानि सप्त संकीर्णानि ॥
वरेत्यादि-
-वरा उत्कृष्ट वारणा चन्द्र : सलिलभरेण सलिलसमूहेन यो
गिरीणां महीमण्डलस्य च संवरः संवरणमावरणम् । ३२३४ । ग्रह-३१३१५८।
इत्यादिनाप् । तस्य वारणं निषेधकम् । समुद्रस्य वेलातिक्रमात् । वसु द्रव्यं तस्य
धारयं धारकम् । '२९००/ अनुपसर्गात्- ।३।१।१३८।' इति णिजन्ताच्छः । तुङ्गाः
अभ्रंलिहा ये तरङ्गास्तैः सह यः सङ्गः संश्लेषः तस्मात् परिहीणो नष्टो लोलो वसु-
धायां तत्संबन्धिन्यां रयो वेगो यत्र तज्जलतीरमारूढः । गणितक्रममेतत् । एतानि
सप्त संकीर्णानि । संस्कृतप्राकृतयोरविशिष्टत्वात् ॥
 
१०२६ - प्रणिपत्य ततो वचनं
 
जगाद हितमा॑यतो पतिर् वारीणाम् ॥
गङ्गाऽवलम्बि-बाहू
 
"
 
रामं बहोरु- हरि-तमाल-च्छायम् ॥ ८ ॥
प्रणिपत्येत्यादि — ततस्तीरप्राप्तेरनन्तरं वारीणां पतिः समुद्रः रामं प्रणिपत्य
वचनं जगाद । हितमात्मनो रामस्य पथ्यमायतावागामिनि काले । गङ्गावलम्बी
गङ्गावलम्बनशीलः संपूर्णत्वाद्वाहुर्यस्य स गङ्गावलम्बिबाहुः । संस्कृते '१७४॥
ठूलोपे पूर्वस्य दीर्घोऽणः ।६।३।११॥ प्राकृते तु पुंलिङ्गे उकारस्य दीर्घत्वम् । विभ-
क्तिसकारस्य च लोपः । उरुर्महान् हरिः हरितो यस्तमाल: । बहुला घना तस्येव
छाया यस्य तमिति । पूर्वार्धे निरवद्यमिति । पूर्वस्मिन्नर्धे प्राकृतस्याभावात् निर
चद्यं पश्चादर्घे तु संकीर्णमेव ॥
 
पूर्वार्ध निरवद्यम्
 
१०२७ - 'तुङ्गा गिरि-वर-देहा,
 
अ-गमं सलिलं, समीरणो रस -हारी, ॥
अ-हिमो रवि- किरण-गणो,
 
माया संसार - कारणं ते परमा. ॥ ९ ॥ .