This page has not been fully proofread.

३३४ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूले चतुर्थी वर्गः,
 
-
 
तया
 
गाढेत्यादि — गाढं सुठु गुरोः पुङ्खस्य या पीडा पीडनम् अङ्गुष्ठाभ्यां
हेतुभूतया सधूमस लिलारे: अग्नेः संभवो यत्र स महाबाणो यस्य रामस्य तस्मिन्
सति । महासंदेहमारूढा संशयं प्राप्ता समहीधरा मही सफणिसभा सह भुज-
ङ्गसमूहेन । धारयन्तीति धराः । अन्न धकारस्य पदमुखे वर्तमानस्य हकारो न
भवति । प्राकृते पदमध्यान्तयोर्विधीयमानत्वात् । महीधर इति समस्तपदेऽपि
न प्रवर्तते । अत्र पूर्वपद्मुत्तरं पदमिति व्यपदेशात् । एवं च सति गोधर-वज्र-
धर-चक्रधर-शङ्खधरादिपु न प्रवर्तते । महीधरो महीधर इत्युभयमपि प्राकृते
प्रयुज्यते । अहमानां विकल्पेन ह्रस्वदर्शनात् ॥
 
१०२२ - घोर-जल-दन्ति-संकुल-
-
 
मेट्ट- महापङ्क - काहल - जाऽऽवासम् ॥
आरीणं लवण जलं
 
समिद्ध-फल-बाण-विद्ध-घोर - फणिवरम् ॥४॥
घोरेत्यादि- रामेणाझेये शरे क्षिप्ते सति लवणजलमारीणं समन्तात
शुष्कम् । ११३८। रीङ् स्रवणे इत्यस्मात् निष्ठातकारस्य 'स्वादय ओदितः' इति
नत्वम् । १९७१ अटू कुपु - ।८।४।२।' इति णत्वम् । रीणमित्यप्रयोगः प्राकृते
महाराष्ट्रे तस्याप्रयोगात् । घोरै: रौदैर्जलदन्तिभिः संकुलं व्याप्तम् । अट्टः शुष्को
'यो महापङ्कः तेन काहला विह्वला जलावासा मल्यादयो यत्र । '२६३ । अट्ट अति
क्रम- हिंसनयोः' इत्यस्य रूपम् । समिद्धफलेन दीसफलेन बाणेन विद्धाः वोराः
फणिवराः महासर्पा यत्रेति ॥
 
१०२३ - स भयं परिहरमाणो
 
महाऽहि- संचार - भासुरं सलिल - गणम् ॥
आरूढो लवण जलो
 
जल-तीरं हरि-वलाsऽगम-विलोल-गुहम् ॥५॥
सभयमित्यादि —— सलिलगणं सलिलसमूहं सभयम् । महाहीनां संचारणं
भासुरं भासनशीलम् । तच्छिरोमणिद्योतितत्वात् परिहरमाणः परित्यजन् । कर्त्र-
भिप्राये तङ् । लवणजल: समुद्रः । लवणं जलमस्येति । जलतीरं तटं यत्र राम-
स्तिष्ठति तदारूढः संप्राप्तो मूर्तिमान् । हरिबलागमेन वानरसैन्यागमेन विलोला
व्याकुला गुहा यत्रेति ॥
 
१०२४ - चञ्चल - तरु-हरिण-गणं
 
बहु-कुसुमाऽऽबन्ध-बद्ध-रामाऽऽवासम् ॥
हरि-पल्लव- तरु-जालं
 
तुरु- समिद्ध-तरु-वर - हिम-च्छायम् ॥ ६ ॥