2023-02-15 17:22:41 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'सेतुबन्धन' नाम त्रयोदशः सर्गः-- ३३३
त्रयोदशः सर्गः-
काव्यं संस्कृतप्राकृतापभ्रंशभेदान्त्रिविधम् । तत्र शब्ददेशीयपदयोः प्राकृत
भाषयोरपभ्रंशस्य च संस्कृतभाषायां समावेशासंभवात् शब्दसमाया: प्राकृत-
भाषायाः समावेशः । तमार्यागीत्या स्कन्धकलक्षणया दर्शयन्नाह ॥
विभीषणागमनात्माक् यद्वृत्तं रामस्य तड़ाह -
१०१९ - चारु- समीरण-रमणे
हरिण-कलङ्क-किरणा॒ऽऽवली-स-विलासा ॥
आवद्ध-राम-मोहा
वेला-मूले विभावरी परिहीणा ॥ १ ॥
—-
चार्वित्यादि — रामो रात्रौ निद्रावान् पल्लवशयनमध्यष्टादित्युक्तम् । तस्य
नियमपूर्व सुप्तवतः प्रभातमभूदिति कथयति । वेलामूले पारसमीपे । प्रकृते
पुंलिङ्ग नपुंसक्योराकारान्तस्य पदस्य सप्तम्या एकवचने मित्वमेत्वं वा रूपम् ।
चारुसमीरणरमणे रमयतीति रमणम् । ८२८९६ । नन्दि ।३।१।१३४ । इत्यादिना
ल्युः । समीरणेन रमणम् । चारु च तत्समीरणरमणं चेति । तत्र विभावरी रात्रिः
परिहीणा क्षीणा । हरिणकलङ्कस्य याः किरणावल्यः ताभिः सविलासा सविभ्रमा ।
अतश्चाबद्धो रामस्य मोहो मूर्च्छा ययेति । 'कृढिकारादक्किनः' इत्यनेन आवलि-
रावलीत्युभयमपि संस्कृतप्राकृतयोः प्रयुज्यते ॥
१०२० - बद्धो वासर-सङ्गे
भीमो रामेण लवण-सलिलाssवासे ॥
सहसा संरम्भ- रसो
दूराऽऽरूढ - रवि-मण्डल-समो लोले ॥ २ ॥
■
बद्ध इत्यादि — नियमास्थितेऽपि मयि नासौ समुद्र उत्थित इति । वास-
रसङ्गे प्रभातकाले रामेण लवणसलिलावासे समुद्रे इति विषयसप्तमी ।
सहसा तत्क्षणं संरम्भरसः क्रोधरसो वीराख्यः भीमो दुःप्रेक्ष्यः बद्धो जनितः ।
दूरारूढरविमण्डलसमो लोल इति । दूरमारूढो मध्याह्नस्थो यो रविः तस्य
मण्डलं तेन समस्तुल्योऽतितीक्ष्णत्वात् । लोले चञ्चले समुद्रे प्रभातवातेन
क्षोभ्य माणत्वात् ॥
१०२१ - गाढ - गुरु-पुङ्ख-पीडा-
स- धूम-सलिलऽरि-संभव - महा-वाणे ॥
आरूढा संदेहं
रामे स मही-धरा मही स-फणि-सभा ॥ ३ ॥