This page has not been fully proofread.

३३२ भट्टि- काव्ये – तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
-
 
दत्त इत्यादि – सदोषैरविचेकित्वादिभिर्भवता पादग्रहारः यो मम धर्में
धर्मादनपेते मार्गे स्थितस्य दत्तः, म मन्त्रिमुख्यैरेतैः सह चिन्तनीयः । आवयोः
र्भध्ये कस्य लाधवमादधातु करोत्विति । यावन्निरूप्यमाणस्तवैवेति भावः ॥
१०१७ - इति वचनमसौ रजनि चर-पतिं
बहु-गुणम॑सकृत् प्रसभम॑भिधत् ॥
निरगमर्द - भयः पुरुष - रिपु -पुरान्
नर-पति-चरणौ नवितुम॑रि-नुतौ ॥ ८६ ॥
 
इतीत्यादि
— इत्येवं वचनं बहुगुणम् अर्थावगाढत्वात् असकृत् बहुत्वाद
प्रसभम् आहत्य रजनिचरपतिमभिदधत् ब्रुवन् । '४२७॥ नाभ्यस्ताच्छतुः
७।१।७८ ।' इति नुम्प्रतिषेधः । रजनिचर इति '१००१ । ङयापोः संज्ञाच्छन्द
सोर्बहुलम् ।६।३।६३।' संज्ञायां ह्रस्वत्वम् । पुरुपरिपुपुरालङ्कातः निरगमत
निष्क्रान्तः । अभयः सन् नरपतिचरणौ रामस्य पादौ अरिभिरपि नुतो शुर
त्वात् । '२३८१॥ श्रयुकः - [७/२।११।' इतीप्रतिषेधः । नवितुं प्रणामपूर्वकं
स्तोतुम् । अनेकार्थत्वाद्धातूनां नन्तुमित्यर्थः ॥
 
१०१८ - अथ तर्मुपगतं विदित - सुचरितं
 
पवन सुत गिरा गिरि-गुरु- हृदयः ॥
नृ-पतिरमदयन् मुदित-परिजनं
स्व-पुर-पति- करैः सलिल - समुदयैः ॥ ८७ ॥
इति भट्टकाव्ये प्रसन्न काण्डे भाविकत्वप्रदर्शनस्
तृतीयः ॥ काव्यस्य द्वादशः सर्गः ॥
 
अथेत्यादि — अथ अनन्तरं विभीपणमुपेतं सेतुबन्धचिन्ताकाले राममुप-
गतवानिति द्रष्टव्यम् । अन्यथा वक्ष्यमाणप्रभातकथनं विरुध्येत । पवनसुत
गिरा हनुमद्वचनेन सच्चरितोऽयमिति विदितं सुचरितं येन नृपतिः रामः
गिरिगुरुहृदयः गिरिवत् गुरु अग्रकम्पं हृदयं यस्य । सलिलसमुद्यैः जलपूर्णघटे
स्थितैः स्वपुरपतिकरैः । लङ्काधिपतिं कुर्वन्तीति हेतौ टः । अमदयत् हर्पितवान् ।
'८१५॥ मदी हर्षे' इत्यस्य हेतुमण्ण्यन्तस्य घटादित्वान्मित्वे इस्वत्वम् । मुदित
परिजनं स्वामी लङ्काधिपत्येऽभिषिच्यत इति तस्य हृष्टा अनुजीवन इत्यर्थः ॥
 
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये
तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयः परिच्छेदः ( वर्गः ),
 
तथा लक्ष्य रूपे कथानके 'विभीषणाऽगमनो' नाम
द्वादशः सर्गः ॥