This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः- ३३१
 
तत इत्यादि —— ततः पाणिग्रहारादनन्तरं स विभीषणः कोपं क्षमया
क्षान्त्या निगृह्णन् अभिभवन्, तथा वैर्येण मन्युं शोकं, विनयेन गर्व, मोहं
वैचियं धिया प्रज्ञ्या, उत्साहशादशक्किमसामर्थ्य निगृह्णन् अपमानेन कोपा-
दीनां संभवात् । चतुर्भिः सचिवैरनात्यैः समं सार्धमुदस्थात् आसनादुत्थितः ॥
१०१३ - उवाच चैनं क्षणदा-चरेन्द्रं -
 
'सुखं महाराज ! विना मया ऽऽस्स्व ॥
मूर्खाऽऽतुरः पथ्य - कटून॑नश्नन्
 
उवाचेत्यादि
 
यत् साऽsमयोऽसौ, भिषजां न दोषः ॥८२ ॥
— उत्थितश्चानन्तरं रावणसुवाच - हे महाराज ! मया विना
सुखमास्स्व तिष्ट । अम्लद । तवात्र दोषो न समोपदेष्टुः । यत्मान्मूर्खातुरः
मूर्खोय आतुरः पथ्यकन अभक्षयन्यसामयः रोगवान् असो निषजां
वैद्यानां न दोषः, किंतु तस्यैव ॥
 
१०१४ करोति वैरं स्फुटर्मुच्यमानः,
प्रतुष्यति श्रोत्र - सुखैर-पथ्यैः ॥
विवेक-शून्यः प्रभुरात्म-मानी,
महान॑नर्थः सुहृदां बता ऽयम् ॥ ८३ ॥
 
करोतीत्यादि-प्रदर्विको निर्विवेकः । आत्ममानी मत्समोऽन्यो
नास्तीति आत्मानं लाघमानः । आत्ममाने इनिः । स्फुटमुच्यमानो वैरं करोति
स्नेहं करोति पथ्यमनेनोक्तमिति । श्रोत्रसुखैः तदर्थमनोहारिभिः अपथ्यैस्तुष्यति ।
तस्मादयं प्रभुः सुहृदामाश्रितानां महान् अनर्थः । अनर्थहेतुत्वात् । बतशब्दः खेदे ॥
१०१५ - क्रीडन् भुजङ्गेन गृहाऽनुपातं
 
3
 
कश्चिद् यथा जीवति संशय-स्थः ॥
संसेवमानो नृ-पतिं प्रमूढं
 
तथैव यज् जीवति, सो ऽस्य लाभः ॥ ८४ ॥
क्रीडन्नित्यादि — यथा कश्चित् सर्पग्राही गृहानुपातं गृहं गृहमनुपत्य ।
'३३७८। विशि-पति- । ३।४।५६।' इत्यादिना णमुल । भुजङ्गेन सह क्रीडन् जीवति
संशयस्थ: संदेहे वर्तमानः किमयं खादिष्यति न वेति । तथैव प्रमूढं मूर्खम-
घिपतिं संसेवमानो यज्जीवति सोऽस्य लाभः । आस्तामन्यो लाभ इति ॥
१०१६ - दत्तः स्व- दोषैर् भवता प्रहारः
 
पादेन धर्म्यं पथि मे स्थितस्य ॥
स चिन्तनीयः सह मन्त्रि मुख्यैः
कस्या ऽऽवयोर् लाघवर्मादधातु ॥ ८५ ॥