2023-02-15 17:22:41 by ambuda-bot
This page has not been fully proofread.
३३० भट्टि-काव्ये - तृतीये मन काण्डे लक्षण-रूपे तृतीयो वर्गः,
-
मन्यम्व अवगच्छ । छोटिरूपम् । यदि जेताप्यहं परेण जीये शिलातरणादी-
ज्यपि भविष्यन्ति ॥
१००९-- अ- निर्वृतं भूतिषु गूढ-वैरं
सत्कार-काले अपि कृता ऽभ्यसूयम् ॥
विभिन्न कर्माऽऽशय - वाक् कुले नो
मा ज्ञाति- चेलं, भुवि कस्यचिद् भूत् ॥ ७८ ॥
m
अनिर्वृतसित्यादि — भूतिषु ज्ञातिसंवन्धिनीषु अनिर्वृतमसुखिनम् । गृढ-
वैरं काले हनिष्यामीति संभृतापकाराशयम् । सत्कारकालेऽपि पूजाकालेऽपि
कृतामर्पम् विभिन्नाः कर्माशयवाचो यस्य तद्विभिन्न कर्माशयवाक् । आशयो.
ऽन्यो वाक्कर्मणी चान्ये यस्येति । ईदृशं ज्ञातिचेलं गर्हितज्ञातिरस्माकं कुले मा
भूत् । कस्यचिदन्यस्य वा मा भूत् । चेलशब्दो गर्हिते वर्तते ॥
१०१० - इच्छन्त्य भीक्ष्णं क्षयमा॑त्मनो ऽपि
न ज्ञातय तुल्य-कुलस्य लक्ष्मीम् ॥
नमन्ति शत्रून्, न च वन्धु वृद्धिं
संतप्यमानेर हृदयैः सहन्ते ॥ ७९ ॥
·
इच्छन्तीत्यादि – ज्ञातयः आत्मनः सुष्टु क्षयं विनाशमिच्छन्ति, न पुनस्तु.
ल्यकुलस्य एकहेनुगोत्रस्य लक्ष्मीं श्रियम् । तथा शत्रु कामं नमन्ति, न पुनर्बन्धु-
वृद्धिं बन्धुसन्ततिं सहन्ते । संतप्यमानैर्हृदयैः ईर्ष्यया दह्यमानैः ॥
किं मया कृतं येनैवमुच्यत इति चेदाह -
१०११ - त्वयाऽद्य लङ्काऽभिभवे ऽति हर्षाद्
दुष्टो ऽति मात्रं विवृतो ऽन्तरात्मा ॥
,
धिक् त्वां, मृपा ते मयि दुस्थ-बुद्धिर् '
वदन्निदं तस्य ददौ स पाष्णिम् ॥ ८० ॥
--
त्वयेत्यादि – लङ्कापरिभवे लङ्कोपरोधे अतिहर्षात् हर्षेण दुष्टान्तरात्मा
अतिमात्रं सुष्टु त्वयाद्य विवृतः प्रकाशितः । मयि दुस्थबुद्धिः अस्मद्विषये दुस्थो-
sमियुक्तोऽयमिति बुद्धिः ते मृषा मिथ्या । अतस्त्वां धिगिति वदन् स दशाननः
तस्य विभीपणस्य सिंहासनोपाश्रितबाहोः पाणि पादप्रहारं शिरसि ददौ ॥
१०१२ - ततः स कोपं क्षमया निगृह्णन्,
धैर्येण मन्युं, विनयेन गर्वम् ॥
"
मोहं धियौत्साह-वशाद॑शक्तिं,
समं चतुर्भिः सचिवैरुदस्थात् ॥ ८१ ॥