2023-02-15 17:22:41 by ambuda-bot
This page has not been fully proofread.
भट्टि-काव्ये तृतीचे प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः,
संश्यते शऋ- पुरोहितो, ऽह्नि,
-
दनां कम्पयन्त्यो निपतन्ति चौल्काः ॥ ७१ ॥
मार्गमित्यादि — अगस्तिना यदध्यासितं विन्ध्यङ्गं तन्मार्ग भृगूणां गोत्र-
गुरुः शुक्रो गतः दक्षिणमार्गचारी शुक्र इत्यर्थः । शकपुरोहितोऽपि वृहस्पतिः अह्नि
दिवसे संदृश्यते । उल्काश्च क्ष्मां पृथिवीं कम्पयन्त्यः निपतन्ति ॥
१००३ - मांस हतानामिक राक्षसाना-
मशंसवः क्रूर - गिरो रुवन्तः ॥
क्रव्याऽशिनो दीघ - कृशानु-वक्रा
भ्राम्यन्त्य भीताः परितः पुरं नः ॥ ७२ ॥
मांसमित्यादि — राक्षसानां हतानामिव मांसमाशंसवः आशंसनशीलाः
'३१४८। सनाशंसभिक्ष उः । ३।२।१६८ ।' मांसभुजः शृगालादयः ऋरगिरः परु
पस्वनाः कृशानुचक्रा: ज्वलनसदशवदना: निर्भयाः परितो भ्रमन्ति ॥
३२८
१००४ - पयो घोघ्नीर॑पि गा दुहन्ति
मन्दं विवर्ण वि-रसं च गोपाः ॥
हव्येषु कीटोपजन: स- केशो
न दीप्यते ऽग्निः सु-समिन्धनो ऽपि ॥७३॥
पय इत्यादि — गोपाः पयः क्षीरं विवर्णं दुर्वर्णं विरसं अस्वादुमदं अल्पं
पयस्विनीरपि दुहन्ति । '५३९ । अकथितं च ॥१॥४॥५१॥ इति द्विकर्मकता । तथा
शोभनेन्धनोऽप्यग्निर्न दीप्यते, हव्येषु हवनीयेपु वृतादिपु सत्सु । २८४२
अचो यत् ।३।१॥९७१' उपजननमुपजनः । भावे घञ्। '२५१२ । जानवध्योश्च
।७।३।३५॥' इति न वृद्धिः । कीटानामुपजनोऽस्येति कीटोपजनः । सहकेशैः
सकेशः । दह्यमानकीटकेश इत्यर्थः ॥
१००५ - तस्मात् कुरु त्वं प्रतिकारम॑स्मिन्
,
स्नेहान् मया रावण ! भाष्यमाणः ॥
वदन्ति दुःखं ह्ये॑नुजीवि-वृत्ते
स्थिताः पदस्थं परिणाम-पथ्यम् ॥ ७४ ॥
तस्मादित्यादि — यस्मादेवं विनाशसूचकानि निमित्तानि दृश्यन्ते, तस्मात्
हे रावण ! स्नेहान्मया त्वं भाष्यमाणः अस्मिन् वस्तुनि प्रतीकारं सीताप्रत्यर्प-
णेनैव सन्धानं कुरु । '१०४४ उपसर्गस्य घञ्- । ६॥३॥२२।' इति बहुलं दीर्घः।
कस्मादेवं भाष्यत इति चेत् । यस्मादनुजीविवृत्तेऽवस्थिताः यद्वचनं दुःखं