This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषणानमनो' नान द्वादशः सर्गः – ३२७
इत्थमनेन प्रकारेण कृतार्थस्य लब्धजन्म फलस्य सम यदि त्वदर्थे मृत्युरवश्यं
यात्, तदा किं न लब्धम् । सर्वमेव जन्मफलं लब्धमित्यर्थः ॥
तव पुनरद्यापि विभीषणोक्तं युक्तं, न ग्रहस्तमुखोकमिति दर्शयन्नाह -
९९९ - किं दुर्नयैस् त्वथ्यु॑दितैर् मृषा॒ऽर्थैर्
 
वीर्येण वक्ता ऽस्मि रणे समाविम् ॥'
तस्मिन् प्रसुप्ते पुनरि॑ित्थर्मुक्त्वा
विभीषणो ऽभाषत राक्षसेन्द्रम् ॥ ६८ ॥
 
किं दुर्नयै रित्यादि
—त्वय्यपि स्थिते किं धौरधोऽस्तु' इत्यादिना यान्यु-
देतान्ययुक्तानि अलीकार्थानि तैर्दुर्नयैः किम् । न किंचित् फलम् । कस्नादिति
वेत् यस्मात्तेषां समाधिं प्रतीकारं संग्रामे राजसंवन्धिता वीर्येण वक्तास्मि वदि-
हम् । रामवीर्यप्रतीकारावीत्यर्थः । इत्थमेवं तस्मिन् कुम्भकर्णे उक्त्वा पुनः
भूयः प्रसुप्ते सति विभीषणो राक्षसेन्द्रमभाषत ॥
 
१००० - 'निमित्त शून्यैः स्थगिता रजोभिर्
दिशो, मरुद्भिर् विकृतैर् विलोलैः ॥
स्वभाव-हीनैर् मृग-पक्षि-घोषैः
ऋन्दन्ति भर्तारमिंवा ऽभिपन्नम् ॥ ६९ ॥
 
निमित्तशून्यैरित्यादि - रजोमिनिमित्तशून्यैः निनिमित्तैः दिशः स्थगिताः
संछादिता: । 'स्थग संवरणे' । मरुद्भिश्च विकृतैः परुपैविलोलैर नियतदिग्वर्तिभिः
स्थगिताः । मृगपक्षिणां च घोषैः स्वभावहीनै भ्रष्टेभर्तारमिवाभिपनं मृतं शोकात्
ऋन्दन्ति ॥
 
१००१ - उत्पात - जं छिसौ विवस्वान्
 
व्यादाय वऽऽकृति लोक-भीष्मम् ॥
अतुं जनान् धूसर - रश्मि-राशिः
सिंहो यथा कीर्ण- सटो ऽभ्युदेति ॥ ७० ॥
उत्पातजमित्यादि — असौ विवस्वान् छिद्रम् उत्पातजं वकाक्कृति लोक-
भीष्मं लोकस्य भयानकं व्यादाय प्रसार्य । व्यापूर्वस्य ददातेः क्त्वो ल्यपि
रूपम् । जनानत्तुं भक्षयितुं धूसररश्मिराशिः सन् अभ्युदेति उद्गच्छति । यथा
सिंहः कीर्णसटः विक्षिप्तकेसरकलापः मुखं व्यादायात्तुमुत्तिष्ठति तद्वदिति ॥
 
१००२ मार्ग गतो गोत्र-गुरुर् भृगूणा-
म॑गस्तिना ऽध्यासित विन्ध्य-शृङ्गम् ॥
 
-