2023-02-15 19:25:57 by श्री अयनः चट्टोपाध्यायः

This page has been fully proofread once and needs a second look.

भट्टि काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
रणज्ञापकान्नलोपाभावः । येषां तु इकार इत्तेषामिदित्वान्नकारलोपाभावः ॥
आभ्यन्तरं शत्रुमजित्वा कथं परंतप इत्याह – व्यजेष्ट षड्वर्गमिति । कामक्रोध-
लोभमोहमदमात्सर्याणां षण्णां वर्गः षड्वर्गः । तमभिभूतवान् । विपूर्वस्य जयतेः
'२६८५ । वि-पराभ्यां जेः ।१।३।५९॥ इति तङ् ॥ अरंस्त नीतौ सामादिषु
संध्यादिषु च रतः । नीतिमानित्यर्थः ॥ समूलघातं न्यवधीत्समूलान्निःशेपानरी-
ञ्शत्रुन्निहतवान् । उच्छेदनीया ये शत्रवस्तेष्विदं विधानम् । समूलोपपदा.
द्धन्तेः '३३५७ । समूलाकृत- ।३।४।३६।' इत्यादिना णमुल् । '३५८ । हो हन्तेः-।
७।३। ५४ ।' इति घत्वम् । वृद्धिः । '२५७४ । हनस्तः ।७।३।३२।' इति तत्वम् ।
'३३६७। कषादिषु यथा- । ३।४।४६।' इत्यादिना यथाविध्यनुप्रयोगः । अनुप्र
योगे '२४३४ । लुङि च ।२।३॥१३।' इति वधादेशः । तस्याकारान्तत्वादुपदे-
शेऽनेकाच्त्वादिण्निषेधो न भवति । अतो लोपे कृते तस्य स्थानिवद्भावात्
'२२८४ । अतो हलादेः- ।७।२।७।' इति विभाषावृद्धिर्न भवति ॥
 
३ - वसू॑नि तोयं घन-वंद् व्यकारीत्,
सहा॑ऽऽसनं गोत्रं - भिदाऽध्यवात्सीत् ॥
न त्र्यम्वकार्दन्यमु॑पास्थिताऽसौ,
यशांसि सर्वेषु-भृतां निरास्थत् ॥
 
वसूनीत्यादि — वसूनि द्रव्याणि बन्धुव्यतिरेकेण बालादिभ्यो व्यकारीद्दत्त
वान् । विक्षिप्तवानिति वा । किरतेर्लुङि रूपम् । कः किमिवेत्यपेक्षायामाह-
तोयं धनवदिति । तोयमुदकम् । घनो मेघः फलनिरपेक्षतया यथा विकिरति
तद्वत्। एवं सम्यक्पालनादिन्द्रेण तुल्यत्वमाह - सहासनं गोत्रभिदाऽध्यवा-
त्सीदिति । गोत्रभिदेन्द्रेण सहासनमध्यवात्सीदध्युषितवान् । अनेनात्यन्तधर्म-
विजयित्वस्य फलं दर्शयति । '१०७४ । वस निवासे ।' इत्यस्य रूपम् । 'वसिः
संप्रसारणी' इति वचनादिडभावः । '२२२५ । अस्ति-सिचः ।७।३।९६ ।' इति इट्
 
१ – '९७६ । द्रव्यं वित्तं स्वापतेयं रिक्थमृक्यं धनं वसु । हिरण्यं द्रविणं द्युम्नमर्थ-
रें-विभवा अपि ॥" इति ना० अ० । २ – '१७७८ । तेन तुल्यं क्रिया चेद् वतिः
( वत् ) ।५।२।११५। ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये
माभूत् । पुत्रेण तुल्यः स्थूलः ।" इति वै० भ० । ३–'४९। सुत्रामा गोत्र-भिद्
वजी वासवो वृत्रहा वृषा । वास्तोष्पतिः मुरपतिर् बलारातिः शचीपतिः ॥" इति० ना०
अ० । 'गां पृथ्वीं त्रायन्ते पालयन्ति ते गोत्राः पर्वतास्तान् भिनत्ति विदारयतीति गोत्र-
भिद् ( त् )।' इति व्या० मा० । '१०३४। त्रै-ङ् पालने " ( ' '१५३३ । भिदिर
विदारणे ।" इति धातुपाठे पाणिनिः । ४–'३८॥ हरः स्मरहरौ भर्गसू त्र्यम्बकस्
त्रिपुरान्तकः । गङ्गाधरोऽन्धकरिपुः ऋतुध्वंसी वृषध्वजः ॥" इति ना० अ० । 'दैव-दीपम्
तु लोचनम् । अम्बकं च----- इति त्रिकाण्डशेषे पुरुषोत्तमः।