2023-02-15 17:22:40 by ambuda-bot
This page has not been fully proofread.
३२६ भट्टि-काव्ये - तृतीचे प्रमश-काण्डे लक्षण-रूपे तृतीयो वर्गः,
अनर्थ-
मूलं भुवनाऽवमानी
मन्ये न मानं पिशिताशि - नाथ ! ॥ ६४ ॥
औष्ण्य मित्यादि- हे पिशिताशिनाथ ! भानुर्मध्यगतोऽपि मध्याह्वेऽपि
औरण्यमुष्णतां त्यजेत् । संभावने लिङ्ग । अथवा हिमांझुर्निशायामपि शैत्यं
त्यजेत् । भुवनावमानी पुनर्भुवनमवमन्तुं शीलमस्येति । नास्ति मत्सम इति स
भवादृशो मानं न त्यजेत् । अनर्थसूलं अनर्थस्य कारणम् । एवं मन्ये जानामि ॥
९९६ - तथा ऽपि वक्तुं प्रसभं यतन्ते
यन् मद्-विधाः सिद्धिर्मभीप्स॒वस् त्वाम् ॥
विलोम - चेष्टं विहिताऽवहासा:
परैर हि तत् स्नेह - मयैस् तमोभिः ॥ ६५ ॥
तथापीत्यादि–तथापि एवमपि सति मद्विधाः सिद्धिं कार्यनिष्पत्तिमभी-
प्सवः आप्तुमेपणशीलाः । यत्त्वां विलोमचेष्टं प्रतिकूलचेष्टितम् । प्रसभमाहत्य
वक्तुं यतन्ते । परैः दृतजनैः शत्रुजनैवी विहितावहासा एवंविधा अप्युपदिश-
न्तीति । वाशब्दः पादपूरणे । तत्स्नेहमयैः स्नेहस्वभावैस्तमोभिरज्ञानैः । स्नेहतम-
सावृता ब्रुवन्तीत्यर्थः ॥
९९७–क्रूराः क्रियाः, ग्राम्य-सुखेषु सङ्गः,
पुण्यस्य यः संक्षय-हेतुरुक्तः ॥
निषेवितो ऽसौ भवता ऽतिमात्रं
फलयं - वल्गु ध्रुवमैव राजन् ! ॥ ६६ ॥
क्रूरा इत्यादि - क्रूराः क्रिया: परहिंलादयः ग्राभ्यसुखेपु परदारोपभोगा-
दिपु सङ्गः प्रसक्तिः, यः पुण्यस्यार्जितस्य संक्षयहेतुरुक्तः विद्यावृद्धेः । असौ भव-
तातिमात्रं निषेवितः सन् हे राजन् ! इदानीं फलति फलं ददाति । अवल्गु
असारम् । ध्रुवमविनाशम् ॥
तस्माद्विलोमचेष्टस्य भवतो हितोपदेशे मम न किंचित् प्रयोजनं, तावत्तु स्यात्
स्वदर्थं मत्प्राणत्याग इति दर्शयन्नाह -
९९८ - दत्तं न किं, के विषया न भुक्ताः,
स्थितो ऽस्मि वा कं परिभूय नौच्चैः ॥
इत्थं कृता॒ऽर्थस्य मम ध्रुवं स्यान्
मृत्युस् त्वदर्थे यदि, किं न लब्धम् ॥ ६७ ॥
दत्तमित्यादि – तव प्रसादादर्थिभ्यः किं न दत्तम्, के विषया न भुक्ताः,
सर्व एवानुभूताः । कं वा परिभूय तिरस्कृत्य उचैर्महति पदे न स्थितोऽस्मि ।