This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः-३२५
 
स्फुरद् घनः सा॒ऽम्बुरवा ऽन्तरीक्षे
वाक्यं ततो ऽभाषत कुम्भकर्णः ॥ ६१ ॥
 
घोषेणेत्यादि — ग्रहस्तविभीषणमातामहानां बढ़ता यो घोषः तेन प्रतिल-
व्धसंज्ञो विबुद्धः कुम्भकर्णी निद्राविलाक्षः निड्या कपायितचक्षुः श्रुतकासार
श्रुतकार्यशरीरः । ततः कार्यसारश्रवणानन्तरं वाक्यमभाषत । चथा घनः साम्बुः
सजलोऽन्तरीक्षे वियति स्फूर्जति तद्वत् स्फूर्जन्निति ॥
 
कार्य निश्चित्य सदसि भापणानि न पञ्चाङ्गमन्त्रं विनेति साङ्गं तं तावद्रुप-
दर्शयन्नाह -
 
९९३ - क्रिया समारम्भ-गतो ऽभ्युपायो,
 
-
 
-
 
नृ-द्रव्य सम्पत् सह- देश - काला ॥
विपत् - प्रतीकार युता अर्थ-सिद्धिर्
मन्त्रमे॑तानि वदन्ति पञ्च ॥ ६२ ॥
 
क्रियेत्यादि – क्रियाणां दुर्गादिकर्मणां यः समारम्भस्तं गतः प्राप्तो योऽभ्यु-
पायः कर्मणामारम्भोपाय इत्यर्थः । इदमेकमङ्गम् । नृद्रव्यसम्पत् पुरुषाणां
द्रव्याणां च सम्पदिति द्वितीयम् । इयोस्सहवचनं योगवाहित्वज्ञापनार्थम् ।
सहदेशकालेति । यस्मिन् देशे काले च कार्यसिद्धिस्ताभ्यां सह वर्तत इति
तृतीयम् । अत्रापि सहवचनं योगादेव । कर्मणामनुष्टीयमानानां या विपत्तस्याः
प्रतीकारस्तेन युक्तेति चतुर्थम् । अर्थसिद्धिः कार्यसिद्धिरिति पञ्चमम् । एतानि
पञ्च मन्त्रस्याङ्गानि वदन्ति नीतिज्ञाः ॥
 

 
९९४ - न निश्चितता॒ऽर्थं समयं च देशं
क्रिया॒ऽभ्युपाया॒ऽऽदिषु यो ऽतियायात् ॥
 
,
 
स प्राप्नुयान् मन्त्र फलं न मानी
काले विपन्ने क्षणदा-चरेन्द्र ! ॥ ६३ ॥
 
नेत्यादि — विनिश्चितार्थोऽवश्यं सिध्यतीति यस्मिन् समये काले देशे च
कार्यसिद्धिः तादृशं समयं देशं च यो विजिगीषुर्नातियायात् नातिक्रामेत् ।
प्रतिषेध्यस्य द्वित्वात् प्रतिषेधद्वयं योज्यम् । समयं च देशमिति पाठान्तरे
समुच्चयेनैक एव योज्य: । क्रियाभ्युपायादिषु सत्सु, आदिशब्दात् पुरुषद्रव्य-
संपरेचस प्रामुयान्मन्त्रफलम् । हे क्षणदाचरेन्द्र ! न पुनर्मांनी
भवादृशः काले विपन्ने प्राप्नोति । स हि देशकालौ हापयति ॥
 
९९५ - औष्ण्यं त्यजेन् मध्य-गतो ऽपि भानुः,
शैत्यं निशायाम॑थवा हिमांशुः ॥
 
भ० का० २८