This page has not been fully proofread.

३२४ मट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
ब्रह्वेत्यादि — सदैवैर्ब्रह्मादिभिः संतापितैः रात्रिचरक्षयाय नुनमयं राम उपायो
विहितः उत्पादितः । नराकृतिः आकृत्यैव केवलं नरः । वानरसैन्यशाली आट्यः ।
अजय्यो जेतुमशक्यः ॥
 
दृष्टश्चैयं प्रकारो देवानां मयेति दर्शयन्नाह -
 
९८९ – वज्रऽभिघातैर-विरुग्ण-मूर्तेः
फेणैर् जलानाम॑सुरस्य मूर्भः ॥
चकार भेदं मृदुभिर् महेन्द्रो
 
यथा, तथैतत् किमपति बोध्यम् ॥ ५८ ॥
वज्राभिघातैरित्यादि- असुरस्य नमुचेः वज्राभिघातैरपि अविरुग्णभूतैः
अचूर्णितशरीरस्य संबन्धिनो मूर्ध्नो जलानां फेणैर्मृदुभिः भेदं चकार यथा तथेद-
मपि शमे स्थितानामपि देवानां नराकृति वस्तु किमपीति बोद्धव्यम् ॥
अन्यथा कथं फेणपिण्डैर्विनाश इत्याह -
 
,
 
९९० - क स्त्री विषह्या: करजाः, क्व वक्षो
दैत्यस्य शैलेन्द्र - शिला - विशालम् ॥
संपश्यतैतद् सदां सुनीतं,
विभेद तैस् तन् नर-सिंह-मूर्तिः ॥ ५९ ॥
 
क्वेत्यादि — स्त्रीविषह्याः स्त्रीभिः सोढुं शक्या: करजा नखाः छ । दैत्यस्य
हिरण्यकशिपोः शैलेन्द्रशिला विशालं त्रक्षः च च । वक्षःकरजयोरपि दूरमन्तरं,
तथापि सदां देवानां एतत्सुनीतं सुनयं संपश्यत । यत् तैर्नखैर्नरसिंहमूर्तिः
तो बिभेद ॥
 
यत्रैवमुपायेन देवैर्निहन्यते तत्र त्वं कथं प्रमादी मुझसीत्याह-
९९९ - प्रमाद - वांस् त्वं क्षत-धर्म-वर्मा
 
"
 
गतो मुनीनाम॑पि शत्रु-भावम् ॥
कुलस्य शान्तिं बहु मन्यसे चेत्
 
कुरुष्व राजेन्द्र ! विभीषणोक्तम् ॥ ६० ॥
 
प्रमाद्वानित्यादि – त्वं यतः प्रमादी अजितेन्द्रियत्वात् । क्षतधर्मवर्मा
त्यक्ताचारः । अतो मुनीनामपि शमे स्थितानां शत्रुत्वं गतः । ईदृशोऽपि कुलस्य
शान्ति बहु मन्यसे चेत् श्लाघसे यदि । हे राजेन्द्र ! कुरुष्व विभीषणोक्तम् ॥
९९२ - घोषेण तेन प्रतिलब्ध-संज्ञो
 
निद्राऽऽविलाऽक्षः श्रुत-कार्य-सारः ॥