This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विमीपणारामनो' नाम द्वादशः सर्गः-३२३
 
त एव तत्स्थो जनो नाभिरक्ष्यः । एवं च सति परेषां किं दुःस्थं इत्याचक्ष्व
कथय । अतो रामेण ज्यायसा संधिरेवास्तु न विग्रह इति ॥
 
तदेव दर्शयन्नाह -
 
९८५ - संधानमैवा ऽस्तु परेण तस्मान्,
 
नाऽन्यो ऽभ्युपायो ऽस्ति निरूप्यमाणः ॥
नूनं वि-संधौ त्वयि सर्वमे॑तन्
 
नेप्यन्ति नाशं कपयो ऽचिरेण ॥ ५४ ॥
 
3
 
संधानमित्यादि- तस्मात्परेण संधिरेवास्तु । अन्य उपायो नास्ति ।
अन्यथा त्वयि विरुद्ध सर्व कपयो विनाशयिष्यन्तीति ॥
९८६ - विभीषणोक्तं बहु मन्यमानः
 
प्रोन्नम्य देहं परिणाम नम्रम् ॥
स्खलद्-वलिर् वार्धक-कम्प्र-मूर्धा
मातामहो रावणमि॑ित्युवाच ॥ ५५ ॥
विभीषणोक्तमित्यादि – बहु मन्यमानः श्लाघमानो मातामहो मातुः
पिता माल्यवान्नाम । देहं परिणामन्त्रं वयसः परिणामान्नमनशीलं प्रोन्नम्बो-
त्क्षिप्य । अत एव स्वलिः । वार्धकेन वृद्धभावेन । मनोज्ञादित्वात् दुञ् ।
कम्प्रः कम्पनशीलो मूर्धा यस्य सः । रावणमिति वक्ष्यमाणमुवाच ॥
 
-
 
wp
 
९८७- 'एकः पदातिः पुरुषो धनुष्मान्
 
यो ऽनेक - मायानि वियद्-गतानि ॥
रक्षः सहस्राणि चतुर्दशा ऽऽदींत्,
-
का तत्र वो मानुष मात्र शङ्का ॥ ५६ ॥
 
एक इत्यादि – एकः असहायः पदातिः न हस्त्याद्यारूढः पुरुषो मनुष्यः ।
धनुष्मान् धनुर्मात्रायुधः । चतुर्दश रक्षःसहस्राणि अनेकमायानि वियतानि
प्रयातुमशक्यानि । परेपामित्यर्थात् । आर्दीत् हिंसितवान् । का तत्र वः युष्माकं
मानुषमात्रशङ्का, नैवेत्यर्थः 11
 
किंतु दिव्योऽसाविति तदेव दर्शयन्नाह -
 
९८८ - ब्रह्मर्षिभिर् नूनम॑यं स-देवै:
संतापित रात्रिचर-क्षयाय ॥
नराऽऽकृतिर् वानर - सैन्यशाली
जगत्य- जय्यो विहितो ऽभ्युपायः ॥ ५७ ॥