2023-02-15 17:22:40 by ambuda-bot
This page has not been fully proofread.
३२२ भट्टि- काव्ये - तृतीये प्रसन्न काण्डे लक्षण रूपे तृतीयो वर्गः,
-
तारा-
विधेयेन कथं विकारं
तारा-सुतो यास्यति राक्षसार्थम् ॥ ५० ॥
कृतेत्यादि – सुग्रीवराजेन ताराविधेयेन ताराचित्तानुवर्तिना । तारासुतोऽङ्गदः
यौवराज्ये कृताभिषेकः सुताविशेषमिति क्रियाविशेषणम् । सुतनिर्विशेषं ममैवायं
सुतो न वालिन इति । तत्कथं राक्षसार्थं विकारं भेदं यास्यति । नैवेत्यर्थः ॥
अन्यसमाश्रयादपि रामेण विग्रहो न युज्यत इति दर्शयन्नाह -
९८२ - पश्यामि रामादधिकं समं वा
ना ऽन्यं, विरोधे यमु॑पाश्रयेम, 8
दत्त्वा वरं साऽनुशयः स्वयम्भू-
रि॑िन्द्र॒ऽऽदयः पूर्व-तरं विरुद्धाः ॥ ५१ ॥
-
पश्यामीत्यादि
— रामादधिकं ज्यायांसं समानं वा न पश्यामि । यं विरोधे
विग्रहाने मित्तमुपाश्रयेम आश्रयं गच्छेम । संप्रश्ने लिङ् । स्वयंभूर्या तावन्ना-
श्रयः यतो वरं दत्त्वा सानुशयः विप्रतीकारवान् जातः । किमिदमकार्यमनुष्ठितं
मयेति इन्द्रादयस्तु पूर्वतरं विरुद्धाः ॥
एवं दुर्गसमाश्रयो ऽपि न युज्यत इति दर्शयन्नाह -
९८३ - दुर्गाऽऽश्रितानां बहुना ऽपि राजन् !
कालेन पाणिग्रहणा॒ऽऽदि-हेतुः ॥
दुर्गोपरोधं न च कुर्वतोऽस्ति
शत्रोश चिरेणा ऽपि दशऽऽस्य ! हानिः ॥ ५२ ॥
दुर्गेत्यादि- दुर्गाश्रितानामस्माकं दुर्गोपरोधं कुर्वतः शत्रोहुनापि कालेन
हे राजन् ! पाणिग्रहणादेः । आदिशब्दादाटविकान्तपालादिप्रकोपस्य हेतुर्नास्ति
यशादपरोधो न भविष्यति । अत्र स्थितानां क्षय एव केवलं न च शत्रोरुपरोधं
कुर्वतः चिरेणापि हानिः । युद्धशरीरोपयोगिनां सर्वदा संभवात् ॥
९८४ - शस्त्रं तरूर्वी धरम॑म्बु पानं
वृत्तिः फलैर्, नो गज-वाजिनार्यः ॥
राष्ट्रं न पश्चान्, न जनोऽभिरक्ष्यः,
किं दुःस्थमा॑च॒क्ष्व भवेत् परेषाम् ॥ ५३ ॥
शस्त्रमित्यादि-
--तरवश्च उर्वीधराश्चेति ९१० । जातिरप्राणिनाम् । २।४।६॥
इति एकवद्भावः । तच्छस्त्रं न शूलखङ्गादि । पानमम्वु न मैरेयादि । फलैर्वृत्तिन-
दनादिभिः । नो गजवाजिनार्यः शरीरमात्रत्वानिश्चिन्ताः । राष्ट्रं देशो न पश्चात्,