This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः -३२१
 
अन्यच्च वालिवध एव तस्यार्थसम्पज्जयायेति दर्शयन्नाह -
९७८- त्वन्- मित्र-नाशो, निज-मित्र-लाभः,
समेत - सैन्यः स च मित्र-कृच्छ्रे ॥
 
भोग्यो वशः पश्य शरेण शत्रोः
प्रसाधितो वालि-वधे न को ऽर्थः ॥ ४७ ॥
 
त्वन्मित्रेत्यादि – वालिवधे सति शरेण रामस्य कोऽर्थो न प्रसाधितः, अपि
तु सर्व एव पश्य । तथाहि । त्वन्मित्रनाशः तस्य च मित्रलाभः मित्रं च तलाभ-
श्चेति । समेतसैन्यः कृच्छ्रे संकटप्राप्तौ भूतभोग्यः उपजीव्यः । वशोऽनुकूल इति ॥
 
तं विभिद्य साधयिष्यामीति चेदाह -
 
९७९ - लोभाद् भयाद् वा ऽभिगतः कपीन्द्रो
न राघवं, येन भवेद् विभेद्यः ॥
स्थितः सतां वर्त्मनि लब्ध-राज्यः
 
,
 
प्रति- प्रियं सो ऽभ्यगमच् चिकीर्षुः ॥ ४८ ॥
 
a
 
लोभादित्यादि – क्रुद्धळुव्ध भीतावमानिताश्चत्वारो भृत्याः परस्य भेद्याः । तत्र
कपीन्द्रो राघवं लोभायाद्वा त्रासाद्दा नाभिगतः । येन हेतुनाऽयं विभेद्यः सात् ।
यस्मादसौ सतां मार्गे स्थितः सन् लब्धराज्यो लाभरतः प्रतिप्रियं चिकीर्षुः ॥
तदनुजीविनोऽपि न भेद्या इति दर्शयति -
९८० - फलाशिनो निर्झर-कुञ्ज - भाजो
दिव्याऽङ्गनाऽनङ्गरसाऽनभिज्ञाः
न्यग्-ज्
- जातयो रत्न- वरैरलभ्या
 
मुख्या: कपीनामपि नौपजप्याः ॥ ४९ ॥
 
फलाशिन इत्यादि-कपीनामपि मुख्या नीलकुमुदादयोऽपि नोपजप्याः
नोपजपितुं शक्या: । यतः फलाशिनो मिष्टान्ननिरपेक्षाः । निर्झरकु अभाज:
न रम्यप्रासादवासिनः । दिव्याङ्गनानङ्गरसानभिज्ञाः दिव्याङ्गनासु योऽनङ्गरसः
सुरतरसः तदनभिज्ञाः । न्यग्जातयः न्यञ्चन्तीति '३७६ । ऋत्विग्- ।३।२।५९॥ १
इत्यादिना किन् ॥
 
युष्मन्मित्रपुत्रोऽङ्गदोऽप्यमेय इति दर्शयन्नाह
-
९८१ - कृताऽभिषेको युवराज-राज्ये
सुग्रीव - राजेन सुताऽविशेषम् ॥