2023-02-15 17:22:39 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'विभीषगागमनो' नाम द्वादशः सर्गः- ३१९
साऽम्भसा शान्तिर्मुपैंतु राजन् !
प्रसीद, जीवाम स-बन्धु-भृत्याः ॥ ४१ ॥
·
-
संधुक्षितमित्यादि – क्षितिपालतेजः मीतावियोगजम् । इन्द्रादिमण्डलै-
अण्डवानरिव संक्षितं दीपितम् । अमर्पतीक्ष्णं असहिष्णुतया सह्यम् । सामा-
म्भसा साम्ना संविना अम्भसेव शान्तिमुपैतु । हे राजन् ! प्रसीद किं संरम्भेण ?
अन्यथा तमारण्योऽभिरिव दुःखामर्पजं तेजो विक्रमयतीति ॥
समानयोरपि संधानमेव युज्यते न विग्रहः किं पुनर्ज्यायसीयत्र हेतुं दर्शयन्नाह -
९७३-अ-पक्क-कुम्भावि॑िव भङ्ग - भाजौ
राजनयातां मरणं समानौ, ॥
वीर्ये स्थितः किंतु कृताऽनुरागो
रामो भवांश चोत्तम-भूरि-वैरी. ॥ ४२ ॥
-
अपक्केत्यादि - हे राजन् ! यथा कुम्भावपको भङ्गभाजी परस्परामिहतौ
विनश्यतः । तद्वत् समानौ युध्यमानौ मरणमियाताम् । सार्वधातुकयकारत्वा-
दिणो न दीर्घत्वम् । राजन्नियातामिति '१३४ । ङमो स्वादचि ङमुद ।८।३।३२॥
किंतु रामो वीर्ये स्थितः । उत्साहशक्तियुक्त इत्यर्थः । विक्रमबलं चोत्सा-
हशक्ति: । कृतानुरागश्च अनुरक्तमण्डलव्वात् । भवान् पुनः उत्तमभूरिवैरी ।
उत्तमा इन्द्रादयो भूरयः प्रभूता वैरिणः शत्रवो यस्य । अतस्तेन संधानमेव
युक्तं न विग्रहः । ननु च समज्यायोभ्यां संघीयेत हीनेनैव विगृह्णीयात् ।
मन्त्रप्रभावोत्साहशक्तिभिर्युक्तो ज्यायान् । अपचितो हीनः । तुल्यशक्तिः समः ।
तत्र ज्ञानबलं मन्त्रशक्तिः । कोशदण्डबलं प्रभुशक्तिः । विक्रमबलं उत्साहशक्तिः ॥
सत्यामुत्साहशक्तौ शेषयोरभावान्न होनेन विग्रह एव युज्यत इत्याह-
९७४ - दण्डेन कोशेन च मन्यसे चेत्
प्रकृ॒ष्टर्मात्मानम॑रेस् तथापि ॥
रिक्तस्य पूर्णेन वृथा विनाशः
पूर्णस्य भङ्गे बहु हीयते तु. ॥ ४३ ॥
दण्डेनेत्यादि–दण्डेन चतुरङ्गेन बलेन, कोशेन हेमरूप्यादिना यदि
प्रकृष्टमात्मानमरेः सकाशान्मन्यसे, तथाप्येवमपि न युक्तं, यतो रिकस्य पूर्णेन
भवता विनाशो भङ्गः वृथा निष्फलः । पूर्णस्य पुनर्भवतो भङ्गे बहु हीयत इति
हीनेन बलवतोऽपि संधानं युक्तम् । रिक्तस्य भङ्गो माऽभूत् ॥