2023-02-15 17:22:39 by ambuda-bot
This page has not been fully proofread.
२१८ मट्टि-काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः,
अथ प्रतापवत्तो मम कथं कार्य विनश्यति प्रतापादेव शत्रवो नश्यन्तीति चेदाह-
९६९ - प्राकार - मात्राऽऽवरणः प्रभावः
खरा॒ऽऽदिभिर् यो निहतैस् तवाऽभूत् ॥
लङ्का-प्रदाहा॒ऽक्ष-वध-दु-भङ्गैः
क्लाम्य॒त्य॑साव॑प्य॑धुना ऽतिमात्रम् ॥ ३८ ॥
प्राकारेत्यादि — तव त्रैलोक्यप्रमाथी प्रताप आसीत् । पुनः खरादिभिर्निहतैः
ग्राकारमात्रावरणो जातः । लङ्कायामेव समर्थत्वात् । असावप्यधुना लङ्कादाहेन,
अक्षवधेन, द्रुमभङ्गेन अशोकवनिका भङ्गेन च अतिमात्रमत्यर्थं काम्यति ग्लानि-
मुपगच्छति ॥
अतो रामेण सह युद्धं न घटते तदेव दर्शयन्नाह
-
९७० - षडुर्ग - वश्यः परिमूढ-बन्धु-
रुच्छिन्न-मित्रो ऽरिगणैरुपेतः ॥
मा पाद-युद्धं द्विरदेन कार्षीर्
नम क्षितीन्द्रं प्रणतोपभोग्यम् ॥ ३९ ॥
पडर्गेत्यादि — वशंगतो वश्यः कामादेर्वश्यः । परिमृढबन्धुः मूर्खामात्यादि-
परिवारः । उच्छिन्नमित्रः वर्गस्यासंभवात् । अरिगणैरुपेतः । तद्विपरितो रामः ।
अतो द्विरदेन पादयुद्धमिव तेन ज्यायसा मा विग्रहं कार्पा: । अपितु क्षितीन्द्रं
रामं नम । प्रणतोपभोग्यम् । अनेन हीनसंधिमाह । तथा चोक्तम् – 'प्रवृत्तं मन्त्रि -
गाकान्तो राजा वलवता बलः ॥ संघिनोपनमेत्तृर्ण दण्डकोशात्मभूमिभिः ॥' इति ॥
युवयोः संधानकारणमस्त्येवेति दर्शयन्नाह -
९७१ - रामो ऽपि दाराssहरणेन तप्तो,
"
वयं हतैर् बन्धुभिरोत्म-तुल्यैः ॥
तप्तस्य तप्तेन यथा ssयसो नः
संधिः परेणा ऽस्तु, विमुञ्च सीताम् ॥ ४० ॥
राम इत्यादि — यथा तप्तेनायसा तप्तस्यायसः संघिर्घटते तद्वदस्माकं तप्तानां
सप्तेन रामेण संधिरस्तु । अतो विमुञ्च सीतां संधिनिमित्तम् ॥
यदि च तेन तप्तेनापि सता ज्यायसा न संधानं तदा सर्वे वयं न जीवामः
तव तेजसो विनाशकत्वादिति दर्शयन्नाह -
९७२ - संधुक्षितं मण्डल-चण्ड-वातै-
रमर्ष- तीक्ष्णं क्षिति-पाल-तेजः ॥