This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषणागमतो' नाम द्वादशः सर्गः - ३१७
 
ढिकर्मणां अपरेणोपहन्यमानानां रक्षां कर्तुमशक्नुवन् शक्तिहीनत्वात् परं श्रयेत ।
यमाश्रित्य क्षयस्थानात् ज्ञानवृद्धिमाप्नुयात् । परो द्विविधः अभियोक्ता तद्विशि-
टवलोऽपरोऽन्य इति ॥
 
यदा तु सहायसाध्यं कार्यं पश्येत् तदा संधिविग्रहासन द्वैधीभावं गच्छेदित्यु-
पड़िशन्नाह -
 
९६६ - एकेन संधिः, कलहो ऽपरेण
 
3
 
कार्यो ऽभितो वा प्रसमीक्ष्य वृद्धिम् ॥
एवं प्रयुञ्जीत जिगीषुरैता
 
नीतीर् विजानन्न॑हितता॒ऽऽत्म-सारम् ॥ ३५ ॥
 
एकेनेत्यादि
 
– अभित उभयपार्श्वयोः संधिना विग्रहेण वा वृद्धिं प्रसमीक्ष्य
पश्चादेकेन शत्रुणा स्वयमभियुक्तेन संधिः अपरेण सहायाभियुक्तेन विग्रहः
कार्यः । एवमुक्तेन प्रकारेण अहितस्य शत्रोरात्मनश्च सारं बलाबलं विजिगीषु-
विजानन् एता नीतीः षाड्डुण्यलक्षणाः प्रयुञ्जीत ॥
 
त्वया पुनरेवं न प्रयुक्ता इति दर्शयन्नाह -
 
९६७ - त्वया तु लोके जनितो विरागः,
प्रकोपितं मण्डलमि॑न्द्र- मुख्यम् ॥
रामे तु राजन्, विपरीतमैतत्
 
"
 
पश्यामि, तेना ऽभ्यधिकं विपक्षम् ॥ ३६॥
 
त्वयेत्यादि- - त्वया पुनश्चतुर्वर्णोच्छेदकारिणा लोके जनितो विरागः । इन्द्र-
मुख्यं शऋप्रधानं च मण्डलं प्रकोपितम् । रामे तु सर्वमेतद्विपरीतं अनुरागेण
जनितं मण्डलं चानुरञ्जितं तेनाभ्यधिकं विपक्षं रामं पश्यामि ॥
 
न चेदानीं भवतः कार्य विनष्टं अपि तु प्रागेवेति दर्शयन्नाह -
९६८ - एकेन वाली निहतः शरेण
 
सुहृत्-तमस् ते, रचितश् च राजा ॥
यदैव सुग्रीव - कपिः परेण,
 
तदैव कार्य भवतो विनष्टम् ॥ ३७ ॥
 
एकेनेत्यादि — तव सुहृत्तमो वाली यदैव परेण रामेण कर्त्रा शरेणैकेन निहतः,
सुप्रीवश्च कपिस्वच्छत्रू राजा रचितः स्थापितः तदैव भवतः कार्य विनष्टमिति ॥