2023-02-15 17:21:42 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके श्री राम संभवो नाम प्रथमः सर्गः -
3
२ - सोऽध्यैष्ट वेदांस्, त्रि-दशांनयेष्ट,
पितॄनपारीत्, समस्त बन्धून् ॥
व्यजेष्ट षड्-वर्गम॑रस्त नीतौ,
स-मूल-घातं न्यवधीदरींश चॅ. ॥
m
सोऽध्यैटेत्यादि— क्षत्रियस्य धर्मोऽध्ययनं यजनं दानम् । शस्त्राजीवो भूत-
रक्षणं चेत्युभयं नृप इत्यनेनोक्तम् । भूतरक्षणे शस्त्रमङ्गम् । स नृपो वेदानध्यै-
टाघीतवानिति स्वाध्याय उक्तः । वेदयन्ति ज्ञापयन्ति धर्माधर्माविति वेदाः
सामादयः । १२८९६ । नन्द-ग्रह-पचादि ।३।१।१३४ । इत्यच् । इङोऽधिपू
र्वस्य '२४६० । विभाषा लुइ-लुङोः - (२।४।५०' इति गाङ् । विभाषयेति गाङ-
भावपक्षे रूपम् । अजादित्वादाद । '२६९ । आटश्च ।६॥१॥९० । ' इति वृद्धिः ।
ङिवादात्मनेपदम् । '२१२ । आदेश प्रत्यययोः । ८।३॥५९॥ इति षत्वं ष्टुत्वं च ।
त्रिदशान्देवानयष्टाग्निष्टोमादिभिः पूजितवान् । यजनमुक्तम् । यजेः '२१५८ ।
स्वरित - जितः - ११।३।७२ ।' इति तङ् । अनिक्समीपत्वाइल: '२३०० । लिङ्सि-
चौ - १।२।११।' इति कित्वं न भवति । '२२४ । श्च अज-८।२।३६।' इत्या-
दिना षत्वम् । '२२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः ॥ पितृनपा-
रीदाप्यायितवान् । पितरमुद्दिश्य यजनम् '११६०। पृ पालन-पूरणयोः ।' इत्यस्मा-
त्पूरणार्थाल्लुङि रूपम् । '२२९७ । सिचि वृद्धिः -।७।२।१।' '२२६६। इट इंटि ॥
२।२८।' इति सिचो लोपः । अथवा 'पितृनतासत्' इति पाठः । १२७१।
तृप प्रीणने ।' इत्यस्मालुङि 'स्पृश-मृरा-कृश-तृप-हृपां च्ले: सिज्वक्तव्यः' इति
च्ले: सिचि '२४०२ । अनुदात्तस्य च ॥६॥१॥५९। इत्यादिना अमभावपक्षे रूपम् ।
पितृस्तर्पितवानित्यर्थः ॥ समस्त बन्धून्मातृपिनादिज्ञातीन्संमतवान् । सदा
दानमानादिभिः पूजितवानित्यर्थः । मन्यतेरनुदात्तत्वात्त । इप्रतिषेधश्च ।
येषां सिच इकार उच्चारणार्थस्तेषाम् '२६९७ । हनः सिच् । १।२।१४॥ इति कित्क-
च
१ –'७॥ अमरा निर्जरा देवास् त्रिदशा विबुधाः सुराः ॥" इति ना० अ० 'तृतीया
यौवनाख्या दशा सदा येषां ते त्रिदशाः । त्रिशब्दस्य तृतीयार्थता त्रिभागवत् । इति
व्याख्यासुधायां (रामाश्रयां ) भानुदीक्षितः । २ – १२९४ । वश्च भ्रस्ज-सृज-सृज-यज-राज-
भ्राज-छशां षः ।८।२।३६ । प्रश्चादीनां सप्तानां छशान्तयोश्च पकारोऽन्तादेशः स्याज्झलि पदान्ते
।' इति वै० भ० । ३ – काम-क्रोध-लोभ-मोह-मद-मत्सरेत्यन्तररीणां पवर्गमित्यनित्यसमासः ।
यथा - ४३ । तनुमुद्धूलयन् मर्त्यः शिव-भागवतो यदि । अरि-पड्-वर्ग-तस् तस्य
भयं नास्ति कदाचन ॥ इति समास-कुसुमाऽऽवल्यामनन्त-शिष्यः । ४- पद्येऽस्मिन्वृत्त
मुपजातिरापञ्चविशतिपद्येभ्यः । तल्लक्षणम् - 'स्यादिन्द्रवज्रा यदि तौ ज-गौ गः, उपेन्द्रवज्रा
ज-त-जास्ततो गौ, । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः (१४) ॥' इति
वृत्त० भट्टकेदारः । उपजातयश्चतुर्दशविधाः सन्ति ।