This page has not been fully proofread.

३१६ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
९६३
 
विग्रहोऽपि विशिष्टस्यैव विजिगीपोर्न यस्य कस्यचिदित्युपदिशन्नाह -
मत्वा सहिष्णून॑परोपजप्यान्
स्वकान॑धिष्ठाय जहा॒ऽन्त दुर्गान् ॥
दुमाऽद्रि- दुर्लड्य- जलाप्रधृप्यान्
वर्धेत राजा रिपु-विग्रहेण ॥ ३२ ॥
 
मत्वेत्यादि – स्वकानात्मीयाननुजीविनः सहिष्णून् समर्थान् अपरोपज-
प्यान् पररभेद्यान् जलान्ते ये दुर्गा: प्रदेशाः तानविष्ठाय तत्र स्थापयित्वा ।
'५४२। अधिशीङ्—।१।४।४६ ।' इति कर्मसंज्ञा । कीदृशान् । द्रुमैरद्विभिर्दुर्ल-
इयजलैश्चाप्रष्टप्यान् अगम्यान् । वनपर्वतजलभेदात् त्रिविधं दुर्गम् । रिपुणा सह
यो विग्रहः तेन हेतुना राजा वर्धेत वृद्ध्युपचितः स्यात् ॥
 
यदा अरिविजिगीषू परस्परं हन्तुं न शक्तौ तदा विजिगीषोरासनमुपदिशन्नाह -
९६४ - शक्नोति यो न द्विपतो ऽभिहन्तुं,
विहन्यते ना ऽप्य-वलैर् द्विपद्भिः
स वा वराहं कलहं विदध्या-
दा॑सीत दुर्गाऽऽदि विवर्धयंश् च ॥ ३३ ॥
 
-
 
शक्नोतीत्यादि — यो विजिगीषुः अवलत्वात् द्विपतः शत्रूनभिहन्तुं विप्र-
हीतुं न शक्नोति अबर्द्विषद्भिर्न विहन्यते स विजिगीपुः श्वावराहं कलहं विदु-
ध्यात् अनुतिष्ठेत् । श्वा च वराहश्च श्वावराहं तदीयमिव कलहम् । '१५००/
तस्येदम् ॥४।३॥२०।' इत्यण् । यथा चाण्डाला वराहं हन्तुमशक्ताः श्वानं विमुच्य
योधयन्ति यद्ययं हतोऽनेन वा अयमिति तयोर्भक्ष्यत्वादुभयथा कार्यसिद्धेः ।
तद्वयोविद्विषतोः कलहं विध्यात् । स्वयं च दुर्गादि विवर्धयन् दुर्गसेतुवणि-
कृषिशून्यनिवेशनद्रव्यहस्तिवनकर्माण्युपचिन्वन् आसीत तिष्ठेत् ॥
 
3
 

 
यदा विजिगीपुर्यानमात्रसाध्यं शत्रुमात्मानं वा शक्तिहीनं पश्येत् तदा यायात्
संश्रयेतेति गुणद्वयमुपदिशन्नाह -
९६५ - प्रयाण-मात्रेण परे प्रसाध्ये
 
वर्तेत यानेन कृताऽभिरक्षः ॥
अशक्नुवन् कर्तुमरेर् विघातं
स्व-कर्म-रक्षां च परं येत ॥ ३४ ॥
प्रयाणमात्रेणेत्यादि — प्रयाणमात्रेण प्रसाध्ये परे शत्रौ नापरं विग्रहमपे
क्षेत, यानेन वर्तत, स्ववृत्तौ वर्तेत । कृताभिरक्षः अभियास्यतः कर्मणां द्विविध
त्वप्रतिविधानात् । अरेविंघात दुर्गादिकर्मोपघातान् स्वकर्मरक्षां स्वेषां दुर्गा