This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः - ३१५
 
-
 
आसीत राजा ऽवसर प्रतीक्षस्
तदा प्रयासं वितथं न कुर्यात् ॥ २९ ॥
 
यदेत्यादि — यदा हि राजा विजिगीषावस्थितः विगृह्णन् विग्रहं कुर्वन् आत्म-
नोऽनुगुणामनुकूलां वृद्धिं न पश्येत् क्षयं वा परस्यात्मनोऽनुगुणं न पश्येत् ।
संदधान इति संधिं च कुर्वन्नात्मनोऽनुगुणं न पश्येत् तदा आसीत स्ववृद्ध्यर्थमा
सनं कुर्यात् न विग्रहं संधिं वा । अवसरः कालस्तं प्रतीक्षत इति अवसरप्रतीक्षः ।
'२९१३ । कर्मण्यण् ।३।२।१॥ संधेर्विग्रहस्य वा स्वपरवृद्धिक्षयानुकूलं कालं
प्रतीक्षमाण इत्यर्थः । न पुनः प्रयास संधिविग्रहोद्यमं वितथं निष्फलं निष्प्रयोजनं
कुर्यात् । यदा तु परं विग्रहीतुमशक्तः तदा श्वावराहकलहं समानमुपदेक्ष्यति ॥
 
संधि कृतवतोऽपि विजिगीपोः परेण वा वियुज्यमानस्य विधिमुपदिशन्नाह -
 
९६१ - संधौ स्थितो वा जनयेत् स्व वृद्धिं
हन्यात् परं वौपनिषत्प्रयोगैः ॥
आश्रावयेद॑स्य जनं परैर्वा
विग्राह्य कुर्यादवहीन संधिम् ॥ ३० ॥
 
संधावित्यादि-संधौ स्थितो वर्तमानः जनयेत् स्ववृद्धिम् । यया अत्यु-
च्छूितः तामभियुञ्जीत परं वा शत्रु उपनिषत्प्रयोगैः विषादिदानैः हन्यात्
विनाशयेत् संधिना जातविश्वासत्वात् । आश्रावयेदस्य जनं देशादिदानेनाकर्षयेत् ।
बलवता अभियुज्यमानः परैः विग्राह्य कलहं कारयित्वा अवहीनसंधिं आक्रान्त-
संधिं कुर्यात् । तस्योपतापितत्वात् ॥
 
संधिग्सोर्विजिगीषोः शत्रुमण्डलभेदं कुर्वतः सुकरः संधिरित्युपदिन्नाह -
 
९६२ - संदर्शित - स्नेह - गुणः स्व-शत्रून्
विद्वेषयन् मण्डलम॑स्य भिन्द्यात् ॥
इत्ये॑वमा॑दि प्रविधाय संधिर्
 
वृद्धेर् विधेयो ऽधिगमाभ्युपायः ॥ ३१ ॥
 
-
 
संदर्शितेत्यादि — अस्मच्छत्रवोऽनेन संधानं मा कार्षुरिति तान्विद्वेषयन्
विमुखानुत्पादयन् । दर्शितस्त्रेहगुणः प्रकटीकृतानुरागगुणः । अस्य शत्रोर्मण्डल-
ममात्यादिप्रकृतिं भिन्द्यात् इत्येवमादि प्रविधाय संदर्शितेत्येवमादिवाक्यार्थं
कृत्वेत्यर्थः । वृद्धेरधिगमाभ्युपाय: प्राप्तिहेतुः संधिर्विधेयोऽनुष्ठेयः ॥