This page has not been fully proofread.

३१४ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे नाम तृतीयो वर्गः,
 
वृद्धीत्यादि-आत्मद्रव्यप्रकृतिसंपन्नो नयस्याधिष्ठानं विजिगीपुः तस्य च
वृद्धिक्षयस्थानमिति त्रीणि फलानि । गुणाश्च सन्धिविग्रहयानासनसंश्रय द्वैधी-
भावाः पट् । तत्र यस्मिन् गुणे स्थितः पश्येदिहस्थः पश्यामीति । दुर्गसेतुवणि
कृपिशून्यनिवेशनद्र्व्यहस्तिवनकर्माण्यात्मनः प्रवर्तयितुं परस्य चैतानि हन्तुं
गुणमातिष्ठेत् सा वृद्धिः । यस्मिन् गुणे स्थितः स्वकर्मणामुपघातं पश्येत् नेतरस्य
तस्मिन्न तिष्ठेत् स क्षयः । स्वकर्मणां वृद्धिगुणेनाभिपश्येदेतत् स्थानमित्यनेन
मार्गेण यो विजिगीपुः वृद्धिक्षयस्थानगतामात्मनः परस्य च वृत्तिमजस्रं शश्वत्
असमीक्षमाणो निरूपयन् सन्ध्यादिषु पड्गुणेषु घटेत यतेत तं विजिगीषुं लक्ष्मीः
राज्यश्रीः चञ्चलापि न मुञ्चति । गुणशृङ्खलाबद्धत्वात् ॥
 
अस्ति स कालो यत्र विजिगीपुणा परवृद्धिरुपेक्षणीयेति दर्शयन्नाह -
९५८ - उपेक्षणीयैव परस्य वृद्धिः
 
ग्रनष्ट - नीतेरजितेन्द्रियस्य ॥
मदाऽऽदि-युक्तस्य विराग-हेतुः,
 
स मूल - वातं विनिहन्ति या ऽन्ते ॥ २७ ॥
उपेत्यादि-
६- परः शत्रुः प्रनष्टनीतिवादजितेन्द्रियः न मदादिपवर्ग त्यजति,
किंतु तेनैव युज्यते । तस्यैवंविधस्य या वृद्धिः सा सर्वस्यैव लोकस्य विरागहेतुः
वैमुख्यकारणमुपेक्षणीयैव न तदभावाय । तेनेदृशी या अन्ते अवसाने समूल-
घातं सर्व सर्वेण विनिहन्ति विनाशयति ॥
 
तथास्ति स कालो यत्र विजिगीपुणाप्यात्मक्षय उपेक्षणीय इत्याह-
९५९ - जनाऽनुरागेण युतो ऽवसादः
 
फलाऽनुवन्धः सुधिया ssत्मनो ऽपि ॥
उपेक्षणीयो ऽभ्युपगम्य संधिं
कामाऽऽदि-पड्-वर्ग-जिता ऽधिपेन ॥ २८ ॥
 
जनेत्यादि - आत्मनोऽप्यवसादः क्षयः जनानुरागेण युतः संबद्धः अनु-
रक्तप्रकृतिसण्डलत्वाद्विजिगीपोः फलानुबन्धः फलमनुवभाति । सुधिया विदुषा
अधिपेन राज्ञा । कामादिपवर्गजिता कामक्रोधलोभमोहमदेर्याणां षण्णां वर्गः
तज्जिता उपेक्षणीयः । तत्रापि परैः संधिमभ्युपरास्य कृत्वा । अन्यथा क्षीणोड-
यमिति परोऽभियुञ्जीत ॥
 
यदा च विजिगीषुः संधिविग्रहाभ्यां फलं न पश्येत् तदा स्ववृद्धिप्राध्यर्थमा-
सनं कुर्यादिस्युपदिशन्नाह -
 
९६० - यदा विगृह्णन् न च संदधानो
 
वृद्धिं क्षयं चा ऽनुगुणं प्रपश्येत् ॥