This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभागमती' नाम द्वादशः सर्गः-३१३
पूःशब्दो वा कृतसमासान्तः । यन्त्र कपिनाथभृत्येन ईदृशमनुष्टितं स कथं
नराभियोगो मन्त्रोन्मुखो न निरूप्यत इति ॥
 
प्रमादेनाग्निः लङ्कामधाक्षीदित्यत्रोत्तरमाह-
९५५ - अग्निः प्रमादेन ददाह लङ्कां
 
,
 
वध्यस्य देहे स्वयमे॑धितश् चेत् ॥
विमृश्य तद् देव - विया ऽभिधत्त
 
ब्रह्मास्त्र - चन्धोऽपि यदि प्रमादः ॥ २४ ॥
 
अग्निरित्यादि — वध्यस्य वधार्हस्य देहे तदेकदेशेषु पुच्छादिपु प्रमादेन
स्वयं युष्माभिरग्निरेधितो दीपितः लङ्कां ददाह चेत्, तथास्तु । ब्रह्मास्त्रब-
न्धोऽपि यदि प्रमादः तद्देवधिया देवबुद्ध्या देवानां सात्विकत्वान्निर्मला बुद्धिः
तया विमृश्य निरूप्याभिधत्त ब्रूत । सोऽपि प्रमाद इति यतोऽसावमोघोऽपि
विश्लेषितः । अभिधत्तेति । '२५०१ । दधस्तथोश्च ।८।२।३८।' इत्यभ्यासदका-
रस्य भए धातोश्च खारे चर्वम् ॥
 
पराभियोगः सर्वथा निरूप्यत इति दर्शयन्नाह -
९५६ - जगन्त्य॑मेया॒ऽद्भुत-भाव-भाञ्जि,
 
,
 
जिताऽभिमानाश च जना विचित्राः ॥
कार्ये तु यत्नं कुरुत प्रकृष्टं,
 
मा नीति - गर्भान् सु-धियो ऽवमन्ध्वम् ॥ २५ ॥
 
जगन्तीत्यादि – असंख्यविचित्रभावभाञ्जि जगन्ति तत्रत्या अपि जनाः
विचित्राः शक्तिदेशकालवशात् जिताभिमानाश्च । अन्यैरुत्कृष्टैर्जीयतेऽभिमान-
स्तेषाम् । तेनात्मन्यभिमानो न कर्तव्य इति दर्शयति । कार्ये तु प्रकृष्ट मुत्तमं
यत्नं कुरुत । येन तत्तत्कार्यं सिध्यति । तत्र च ये युक्तिमभिदधति तान्नीति-
गर्भान् नीतिरेव षाड्गुण्यादिज्ञानं गर्भे येषाम् । अत एव सुधियो मावसन्ध्वं
मा परिभूत । तद्युक्तानुष्ठानात् । '२६९७ । हनः सिच् । १।२।१४।' इति
कित्त्वविधानसामर्थ्यात् अनुनासिकलोपाभावः । ८२२४९)घि च ।८।२।२५॥
इति सिचो लोपः ॥
 
यथा च विजिगीषुणा वर्तितव्यं तथोपदिशन्नाह
-
९५७ - वृद्धि क्षय स्थान-गतामंजस्रं
 
वृत्तिं जिगीषुः प्रसमीक्षमाणः ॥
घटेत सन्ध्याssदिषु यो गुणेषु,
लक्ष्मीर् न तं मुञ्चति चञ्चला ऽपि ॥ २६ ॥
 
भ० का० २७