2023-02-15 17:22:38 by ambuda-bot
This page has not been fully proofread.
भट्टि- काव्ये - तृतीये प्रसन्न काण्डे लक्षण रूपे तृतीयो वर्गः,
समेधितो वर्धितः तैलघृतादिभिर्गृहात् गृहं गच्छतो गलन् पुच्छात्पतन् लङ्काम-
धाक्षीत् दग्धवान् । '३२६ । एकाचो वशो भप्- ।८।२।३७ ।' इत्यादिना धत्वम् ।
हलन्तलक्षणा वृद्धिः । '३२४ । हो ढः ॥२।३१॥२९५ पढोः कः सि
१८१२१४१॥ निजैन आत्मीयेन प्रमादेन ज्वालादर्शितलक्षणेन । तदानीं तस्य
शस्त्रव्यापादनमेव युक्तमिति ॥
९५२ - अथा इञ्चितो॒रस्कमु॑दीर्ण-दृष्टि:
कृत्वा विवक्षा-प्रवर्ण शरीरम् ॥
विवृत्त-पाणिर् विहतो॒त्तरा॒ऽर्थं
विभीषणो ऽभाषत यातुधानान् ॥ २१ ॥
अथेत्यादि — प्रहस्तादिवचनान्तरं अञ्चितोरस्कं विन्यस्तहारत्वात् । पूजि-
तोरस्कम् । ८८९ । उरःप्रभृतिभ्यः कप् ।५।४।१५।''३०४७ । अ: पूजायाम्
।७।२।५३।' इतीद । '४२४। नाञ्चेः पूजायाम् ।६।४।३०॥ इत्यनुनासिकलोपप्रति-
षेधः । तादृशं शरीरं विवक्षाप्रवर्णं वक्तुमिच्छाभिमुखं कृत्वा शरीरस्य सौष्ठवं
उत्पाद्येत्यर्थः । उदीर्णदृष्टिस्तदभिमुखदृष्टिः । विवृत्तपाणिस्तदभिमुखीकृतदक्षिण-
पाणि: विभीपणो यातुधानानभापत विहतोत्तरार्थं विहतः प्रतिषिद्धः पररुदितस्य
वचनस्यार्थी यत्र भाषण इति ॥
९५३ - ' युद्धाय राज्ञा सुभृतैर् भवद्भिः
संभावनायाः सदृशं यदुक्तम् ॥
तत् प्राण-पण्यैर् वचनीयमेव,
प्रज्ञा तु मन्त्रे ऽधिकृता, न शौर्यम् ॥ २२ ॥
युद्धायेत्यादि - युद्धार्थं राज्ञा भवन्तः सुभृताः संवर्धिताः तैः सुभृतैर्यदुक्तं
'भानुं पिनपाम' इत्यादि । कीदृशम् । संभावनायाः सदृशम् । तत्प्राणपण्यैर्वचनी-
यमेव । मन्त्रे तु प्रज्ञाधिकृता न शौर्यम् ॥
'नराभियोग किं नयसे गुरुत्वम्' इत्यत्रोत्तरमाह-
९५४ - यच् चापि यत्ना - Sऽदृत मन्त्र - वृत्तिर्
गुरु-त्वमा॑याति नरा॒ऽभियोगः ॥
वशीकृतेन्द्रस्य, कृततो॒त्तरो ऽस्मिन्
विध्वंसिताऽशेष-पुरो हनूमान् ॥ २३ ॥
यच्चेत्यादि — वशीकृतेन्द्रस्य निर्जितशत्रस्य रावणस्य नराभियोगो यत्नादृत-
मन्नवृत्तिर्यत्नेनादृता मन्त्रवृत्तिर्यस्य सः तादृशो गुरुत्वमायातीति यच्चाप्युक्तं अस्मिन्
वस्तुनि हनुमान् कृतोत्तरी दत्तोत्तरः । यतः विध्वंसिताशेषपुरः । पुरं लङ्का ।