2023-02-15 17:22:38 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः - ३०९
तमसमूहा॒ऽऽकृतिम॑प्य॑शेषा-
नूर्जा जयन्तं प्रथित प्रकाशान् ॥ १० ॥
प्रीत्येत्यादि- - यथा भुजङ्गाधिपः शेषः प्रीत्या स्रेहेन दत्तेक्षणसन्निपातः
समर्पित
नेत्रनिवहो भयमादधाति तद्वद्भयमाद्धानम् । तमःसमूहस्येवाकृतिर्यस्य
तमपि प्रथितप्रकाशानशेषानर्कादीन् ऊर्जा बलेन जयन्तमैक्षिष्ट । ऊर्जेति '३१५७ १
भ्राज-भास–१३।२।१७७१' इत्यादिना किप् ॥
९४२ - तं रत्न दायं जित-मृत्यु - लोका
रात्रिं चराः कान्तिभृतो ऽन्सर्पन् ॥
प्रमुक्त-मुक्ता-फलम॑म्वु-वाहं
संजात तृष्णा इव देव-मुख्याः ॥ ११ ॥
a
तमित्यादि - यथा देवमुख्याः अमरत्वाजितमृत्युलोकाः कान्तिभृतो दीप्ति-
धराः संजाततृष्णाः सन्तः प्रमुक्तमुक्ताफलमम्बुवाहमुपसर्पन्ति तद्वत्तं विभीषणं
रखदायं । रत्नं दास्यतीति । '३१८११ अण् कर्मणि च । ३।३।१२।' इति भविष्य-
काले क्रियायां क्रियार्थायामित्यण् । तत्र एककर्तृके भिन्नकर्तृके वेति विशेषाभा-
वात् । अथवा '५१५ । दय दानगत्योः' इत्यस्मात्कर्मण्यण् । रत्नं दयते ददातीति
कृत्वा । रात्रिंचरा भग्नयमलोका अन्वसर्पन् ॥
९४३ - स किङ्करैः कल्पितमिङ्गित-ज्ञैः
संबाधकं पूर्व- समागतानाम् ॥
सिंहासनो॒पाश्रित-चारु-वाहु-
रंध्यास्त पीठं विहित प्रणामः ॥ १२ ॥
स इत्यादि-
--स विभीषणः विहितप्रणामः कृतप्रणतिः पीठमध्यास्त निषण्ण-
वान् । किङ्करैर्भृत्यैरिङ्गितज्ञैरभिप्रायवेदिभिः कल्पितमुपनीतम् । पूर्वसमागतानां
प्रथमप्रविष्टानां संबाधकं संकटकृत् संवाधत इति ण्वुल । रावणस्य सिंहासने
उपाश्रितः स्थितः चारुर्बाहुर्यस्य विभीषणति सः ॥
९४४ - ततो दशा॒ऽऽस्यः क्षुभिताऽहि-कल्पं
दीSङ्गुलीयो॒पलर्मूढ
रत्नम् ॥
अनेक - चञ्चन्-नख - कान्ति- जिह्वं
प्रसार्थ पाणिं समितिं बभाषे ॥ १३ ॥
तत इत्यादि — विभीषणनिवेशनादुत्तरकालं दशास्यः पाणिं क्षुभिताहिकल्पं
क्रुद्धविस्तृतफणेन सर्पेण तुल्यम् । दीमो दीपनशीलोऽङ्गुलीयोपलोऽङ्गुलीयरत्नम् ।